This page has not been fully proofread.

६४.
 
हनूमदभिज्ञानार्पणदिलीपान्वयवर्णन
 

 
चे।
 
नयनोदकनिम्नगातिवेगान्रुत्सारितपाणिपल्लवे
ललिताङ्गुलिमार्गमुद्रयाविष्कृतपत्रावलिविभ्रमां कपोले ॥ ८ ॥
 
पतदश्रु॒नदीतरङ्गमार्ष्टिस्फुटपक्ष्मावलिमूलकालिमेन ।
 
द्वितयेन दृशोश्च दिक्ष्वभीक्ष्णं वितथालोकविलक्षतां गतेन ॥ ९ ॥
पिशिताशिविभीषिकानुबन्धादिव मूर्धाग्रगतेन जीवितेन ।
विषमाकुलमौलिरुद्धभासा मणिरत्नेन च यत्नसूचितेन ॥ १० ॥
स्थिरसान्द्रकषायगन्धगर्भैरपरिच्छेद्यमधुव्रतोपगाँनैः ।
चिकुरैर्विधुरेऽपि दर्शयद्भिः श्रियमग्राविलासमज्जनस्य ॥ ११ ॥
अपि पत्रविशेषशोभिंतानां कुचपृष्ठे च पतन्नखत्रणानाम् ।
अनुलेपविसर्जनोज्ज्वलाभिः किणराजीभिरतीव लज्जमानाम् ॥ १२ ॥
 
करपल्लवपर्वमूलमूर्छन्मणिमालावलयांशुजालकेन ।
अनवस्थितवेलनातिवेग।द्भुजवल्लीयुगलेन चालसेन ॥ १३ ॥
 
अविलेपनदानसौरभेण स्थिरलावण्यनिगूढतानवेन ।
वपुषा च यथाहिताभिरामस्थितिदुर्लक्ष्यविगाढवेदनेन ॥ अष्टभिःकुलकम् ॥१४॥
इति कान्यपि लक्षणानि पत्न्यः स कथंचिन्मदनाकुलो जगाद ।
अवगन्तुमलं वभूव शेषाण्यथ सामीरणिरिङ्गि तोदितानि ॥ १५ ॥
 
निजदेहपरिच्छदावलोकक्षणमन्दाक्षनिरुद्धसंप्रदिर्त्सः ।
विततार स तत्र स्मृतेन प्रभुरध्यक्षपराश्रये प्रसादम् ॥ १६ ॥
अभिलक्ष्यतमानि तस्य हस्ते निजवस्तुष्वथ कानिचित्तदानीम् ।
स विविच्य विचक्षणः क्षणेन प्रददौ प्रत्ययहेतवे प्रियायाः ॥ १७ ॥
 
व्यतरत्खरैकन्धरास्रलिप्तामिषुमुत्तप्तसुवर्णचित्रपुङ्खाम् ।
अनुरक्तिमिवात्मनः सुदीर्घामसुतुल्यामनुदैवदुरनीताम् ॥ १८ ॥
 
हृदयं स्वमिवानिवार्यमीनध्वजवाणाध्वकृतान्तरालमन्तः ।
विससर्ज विभूषणं च हैमं निजनामा डूमनामिकानिविष्टम् ॥ १९ ॥
 
१. Aन २. BC प्रतता । ३. B मा । ४. B त्यु। ५. ABC यत्नविशेषरोपि ६ A तिबेल्लितातिवेगां ।
 
७. BC जन्या. ८. BC देशः । ९. BC गुरु.