This page has not been fully proofread.

हनुमदभिज्ञानार्पणदिलीपान्वयवर्णनो नाम
 
आये समस्तमिदं हृदि रोपितं प्रियसखाः प्रभुरेष यदुक्तवान् ।
स्मरत पृच्छत शेषमनाकुलाश्चलत सिध्यतु यत्र मनोरथः ॥ ८७ ॥
कुरुत मार्गमनर्गलरंहसः कमपि तूर्णमिह व्यसनार्णवे ।
 
झटिति येन जगत्रितयप्रभोरवतरन्त्यरिनक्रभिः शराः ॥ ८८ ॥
मुकुलितां मिथिलेन्द्रसुताब्जिनीमपि सुदूरगतामधिगच्छतु ।
अरितमश्च भवद्भिरभीशुभिनुदतु संप्रति रामदिवाकरः ॥ ८९ ॥
व्रजत साधयतारविगोचरादचिरमेवं समेत निरागसः ।
चरणयोः शिरसा पतितानिति प्लवगराजपतिः प्लवगानशात् ॥ ९० ॥
इति प्रकटसुप्रभुत्रयमहाप्रसादोद्धुरा
मणिध्वनिपुरस्कृतस्त्रकुलवृद्धयात्राशिषः ।
दिशं दिशमधोक्षजगृहिणशम्भुसंप्रेषिताः
 
सुपर्व सुभटा इव प्लवगयूथपास्ते ययुः ॥ ९९ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रतिदिशं प्लवङ्गयूथैसंप्रेषणो
नाम सप्तमः सर्गः समाप्तः
 
१. B मत्र । २, D पतिसंशिक्षण ।