रामचरितम् /93
This page has not been fully proofread.
सप्तमः सर्गः ।
समुदिताः कपयश्च नलादयः प्रभुनियोगपुरस्कृतिलालसाः ।
बचसि तस्य सदस्यमनोहरे सरभसाः सहसाऽनुमतिं दधुः ॥ ७४ ॥
रघुपतिः कपिषूपयमात्मभृत्यकथयन्मिथिलेन्द्रतनूजया ।
सह यदुक्तमनुष्ठितमीप्सितं जनसमक्षमुपांशु च मुग्धया ॥ ७५ ॥
समदिशत्सदृशं प्रणयस्य यत्प्रणयिनीमनु तां विनयस्य यत् ।
अभिजनस्य नयस्य समुन्नतेर्गतवतोऽतिभुवं विरहस्य च ॥ ७६ ॥
प्रभवति स्म वचोभिरुदारधीः कथयितुं न स दारवपुर्गुणान् ।
मुहुरनुस्मृतिलब्धंविनिर्गमैरलमभूत्पुनरुत्कलिकोमिंभिः ॥ ७७ ॥
परिमलं प्रतिगात्रमकृत्रिमं मधुरमाधिविमर्दसहं महः ।
शिरसि रत्नमयत्नसमुज्ज्वलं विरजसी वसने मलनादपि ॥ ७८ ॥
चरणरागमयावकसंभृतं नयनकालिमभक्तिमकज्जलाम् ।
अधरसस्मितकोमलदीधितिं निजवधूतनुचिह्नमुवाच सः ॥ युगलम् ॥ ७९ ॥
स्मरति किञ्चिदयं न तवाग्रजः कथय लक्ष्मण तां प्रति लक्षणम् ।
हृदयमप्यवर्श भ्रमतीव मे बिभृहि मामिति संप्रमिमील च ॥ ८० ॥
प्रतिविधूय तमः स्वयमेव तद्विशदतामगमच्च मनागसौ ।
प्रतिदिशं विससर्ज च संभ्रमात् कपिपतिः कपिकुञ्जरयूथपान् ॥ ८१ ॥
रघुपतेः प्रथमं चरणाब्जयोस्तदनुजस्य ततस्तदनन्तरम् ।
रविसुतस्य निपेतुरधीशितुश्चिचलिषातरलास्तरुगोचराः ॥ ८२ ॥
सुमनसस्तव सन्त्वधिपा दिशां ग्रहगणोऽनुगुणः सकलोऽस्तु ते ।
अद्भुतकालमनाकलितक्लमं निकट एव लभस्व मनीषितम् ॥ ८३ ॥
प्रकटय क्रिययाऽऽशु निजान्तरं तरतु वीर यशस्तव तोयधीन् ।
इति पृथक् प्रतिवानरमादराद्वरमिवाशिषमादिगुरुर्ददौ ॥ ८४ ॥
क्व स गमिष्यति संप्रति पापकृत्कियदिदं त्रिजगद्विजयाय वः ।
क्व खलु मास्यति भाविभवद्यशो मितमिदं कनकाण्डकरण्डकम् ॥ ८५ ॥
द्रुतसमिद्धमनोरथशालिनः सुखमुपेतजगन्नुतिबन्धुराः ।
भृशतरं परिरभ्य सुहृत्प्रियः प्रियमुवाच कपीनिति लक्ष्मणः ॥ युग्मकम् ॥८६॥