This page has not been fully proofread.

२६०
 
प्रतिदिशं प्लवङ्ग्यूथसम्प्रेषणो नाम
 
६५॥
 
यदि विवेश रसातलमन्तिमं यदि गतो नरकं नरकण्टकः ।
विधुतसंमुखधूमचयो यदि क्षय हुताशनरुद्रमुपस्थितः ॥ ६१ ॥
परिगतो यदि तिष्ठति वह्निना भजति मध्यमगाधमपां यदि ।
प्रवहवेगमहापरिघे यदि ग्रहकदम्बकवर्त्मनि वर्तते ॥ ६२ ॥
यदि विदेहपदं प्रतिपन्नवान् यदि गतः परमाणुसमानताम् ।
यदि निखातपुरातनपञ्जरो जगति संचरते नवया पुरा ॥ ६३ ॥
यदि निरूढभवद्भयवेपथुः पथि रथस्य रवेरथ सीदति ।
लुठति वा यदि विप्रतिसारवानपगमय्य मृगं मृगलक्ष्मणि ॥ ६४ ॥
क्षणविनीतपवित्रपरिच्छदो यदि पितॄन् कुपितानुपसीदति ।
यंदि विपाट्य कवाटपरम्पराः प्रविशति स्म मनुष्यगृहाणि वा
उदपतज्जनलोकमसौ यदि श्रयति वा यदि सत्यसदां सदः ।
जनितचित्रशिखण्डिचमत्कृतिश्चरति यद्यपरि ध्रुवयोरपि ॥ ६६ ।
यदि नमस्यति वित्तपमत्रपः श्रयति विश्रवसोऽङ्कमृषेर्यदि ।
यदि सलज्जपुलस्त्यसमर्पितो वसति पीठतले परमेष्ठिनः ॥ ६७ ॥
यदि विभिद्य कुटीपटलं विधेः द्रुतंमयुग्मदृशं शरणं गतः ।
तदपि तं विनिगृह्य निवर्तते विवृतयोगवलोऽनिलनन्दनः ॥ ६८ ॥
किमुदितैर्बहुभिर्बहुविस्मया भुवनमाशु विचित्य समागताः ।
जनकराजसुतादशकण्ठयोः स्फुटमुदन्तममी कथयन्ति ते ॥ ६९ ॥
इति चतुर्दशलोकविपश्चितं प्रचयशिष्टसमस्तमनोगतम् ।
अभिनन्दुरतीन्द्रियरंहसः प्लवगवीरगणाः प्लवगेश्वरम् ॥ ७० ॥
सदसि दाशरथेः स तदा वृतः कपिभिरुच्चशिरोभिरशोभत ।
उदयसानुमतः कटकान्तरे रविरिवाम्बुजकाननमध्यगः ॥ ७१ ॥
अवितथैरथ तैः सुहृदीरितैरुदितदृष्टिरभाषत लक्ष्मणम् ।
जयसि वत्स हतः क्षणदाचरो नृपसुताऽधिगतेति रघूद्वहः ॥ ७२ ॥
कुरु यदाह महाहृदयः सुहृत्त्वरितमार्य विसर्जय वानरान् ।
नयसि दूरमरेः किमकारणं निधनमित्यवदद्भरतानुजः ॥ ७३ ॥
 
१. B वा । २. D द्यम । ३. D शत । ४ D ताः ।