This page has not been fully proofread.

सप्तमः सर्गः ।
 
निगमयेयुरमी च विदूरतो रुचिर देहरुचिप्रतिहारिताः ।
इयमसौ रघुनाथवधूरिति स्फुटमदृष्टचरीमपि तां बुधाः ॥ ४८ ॥
अतिकशामपि दीधितिशालिनीमलममी सुधियः परिमार्गितुम् ।
नृपसुतां परितः क्षणदाचरीः कनकधूलिमिवाखुकृता मृदः ॥ ४९ ॥
त्यज विकल्पमनन्तरमेव सा सुकृतिनस्तव गोचरमेष्यति ।
अनुदयाय नहि व्यवधीयते सवितुरस्तगिरेः शिखरैः प्रभा ॥ ५० ॥
यदि स तेषु कलत्रमलिम्लुचश्चरति कुक्षिषु मेरुमहागिरेः ।
यदि सुरैर्विरलप्रहतासु वा शिखरकोटिषु तिष्ठति शृङ्गिणः ॥ ५१ ॥
नगमतीत्य गतो यदि वारिधिं' वसति वा वसुधारवैने यदि ।
यदि च पादभुवं भयवानगान्मणिमतः शरणं धरणीभृतः ॥ ५२ ॥
निपतितो यदि माल्यवतस्तटीरटति नीलनितम्बतले यदि ।
अधिवसत्यवधिं परिपालयन्यदि सुपार्श्वमहावटकोटरम् ॥ ५३ ॥
विपुलमूर्ध्नि महाजगतीरुहश्चलदलस्य तले यदि सीदति ।
कुसुमितोच्चकदम्बतरुध्वजं भजति वा यदि संप्रति मन्दरम् ॥ ५४ ॥
गजगिरेर्यदि शीलयात स्थलीर्यदि निषीदति किम्पुरुषाचले ।
याद सुगन्धिान निर्हृतलाञ्छनो निभृतमस्ति पिशाचशिलोच्चये ॥ ५५ ॥
तटानि च ।
 
अधिगतो यदि जम्बुरसापगामु
 
यदि महाहदरोधसि तिष्ठति व्यवहितः सुतरां यदि भद्रया ॥ ५६ ॥
यदि विकम्पमधावत कम्पवान् यदि सुकुञ्जनिकुञ्जगृहान् गतः ।
यदि भयद्रुतभूतविलोकितस्तुलितपूर्वमियाय महीधरम् ॥ ५७ ॥
रमणकं निपुणो यदि सेवते यदि जगाम कुरूनथ चोत्तरान् ।
अरुणसूतरुचामपि दुर्गमे नयति वा यदि कालमिलावृते ॥ ५८ ॥
यदि विजित्य जवात्पयसां निधीन् सुरविहारतटीषु निविष्टवान् ।
अतिगतार्कमयूखपथावधिर्यदि तमोघनभूमिषु मोदते ॥ ५९ ॥
यदि जगाम चिरादमरावतीमतिभयाद्यदि गन्धवतीं गतः ।
विकटभोगिभुजार्गलगोपुरां पुरमगादथ भोगवतीं यदि ॥ ६० ॥
 
१. A B C जारुधिः । २, Bच । ३. Bन । ४. A वं । ५ BC विफलो ।