रामचरितम् /89
This page has not been fully proofread.
सप्तमः सर्गः ।
अयि ममानिशलालनलालसे निवसनव्यवधानविषादिनि ।
कथमतीतमनोरथवर्त्मभिर्विषहसे विषयैरधुनाऽन्तरम् ॥ २३ ॥
सह निकामनिवासमहोत्सवादजनि कौतुकमङ्गलधाम यत् ।
मम तदेव तनूदरि दारुणं वनमभूद्भवतीमधुना विना ॥ २४ ॥
इयमियं दिवि दिक्षु च दृश्यते दिशति वाचमुपेत्य परं न मे ।
नय सखे नयनातिथितामिमामहह केन पथाऽऽशु गता पुनः ॥ २५ ॥
अपहरन्ति न तापमपां कणाः स्पृशति मर्मसु मुर्मुरवैन्मरुत् ।
प्लवगराज मम प्रियया विना किमतिकष्टमिव ज्वलितं जगत् ॥ २६ ॥
भ्रमति भूः पततीव नभस्तलं विलयमेति बलाद्वलयं दिशाम् ।
मम पुरस्तमसा च तमोऽपहः प्रसभमेष वयस्य विलुष्यते ॥ २७ ॥
• अभिमुखं सुमुखि क्षणमास्व मे चलसि किं बत कोऽत्र विलोकते ।
खरनखत्रणदष्टमिदं शनैः शिथिलयामि तव स्तनबन्धनम् ॥ २८ ॥
क्षणमिह क्षणकोपिनि सुप्यतामुपलवत्युपसिन्धुलतागृहे ।
अयमैपैतु विराघवधश्रमः त्वदर्धिकण्ठतटोसुखेन मे ॥ २९ ॥
अलमलं प्लवगेश विशङ्कया तव सुहन्न खलु प्रलपत्ययम् ।
इयमनुस्मृतिभूः क्षणमाकुलं हृदयमुत्कलिका तु करोति मे ॥ ३० ॥
स्पृश कपीश करेण जडेन मां बिभृहि वत्स विगच्छति चेतना ।
दहति मोहविरामविशृङ्खलो जनकराजसुताविरहानलः ॥ ३१ ॥
किमपि निष्करुणस्मरसायकप्रहातेजर्जरिताङ्गकमद्य माम् ।
विधुरयन्ति विधोरपि नूतनत्रणवितीर्णविषा इव रश्मयः ॥ ३२ ॥
धनुरिदं परिगृह्य समार्गणं मयि वधाय विधोः सहसोत्थिते ।
किमिदमार्य तवापरमेतदित्यकरुणो बत मुह्यति लक्ष्मणः ॥ ३३ ॥
जनयति क्रियमाणमसौहृदं प्रियसुहृत्सु निजार्तिनिगूहनम् ।
इति मयाsऽधिरवाग्विषयोप्ययं त्वयि कपीन्द्र कियानपि कीर्तितः ॥ ३४ ॥
१. A वा । २. A क्षणमास्व च मे पुर ३. B मु । ४ A सुदति ५. B म्योप,
<