This page has not been fully proofread.

५६.
 
प्रतिदिशं प्लवङ्गयूथसंप्रेषणो नाम
 
विनयवारितवाग्व्ययविस्तराः स्फुरितसूचितविक्रमसंपदः ।
किमपरेऽपि सुराधिपसन्निभास्तव चमूपतयः प्रतिजानते ॥ १० ॥
कनकपर्वतकूटकुतूहलं व्यपनयन्ति वपुर्गुणसंपदा ।
 
अकलनीयतया च वदन्त्यमी कलितवारितलानिव तोयधीन् ॥ ११ ॥
असमधामभृतः प्रभवन्त्यमी पृथगपि क्व न कर्मणि दुष्करे ।
समुदितास्तु समस्तमिदं जगद्विजयिनो जनयन्त्यकुतोभयम् ॥ १२ ॥
रणखलाक्रमणोचितमुच्यतां किमित्र तत्प्रतिभीतिकरं तरः ।
विह्नैतिवल्गनवेगमपीह कस्तव सखे विषहेत वनौकसाम् ॥ १३ ॥
न तदिह त्रिशिखेन पिनाकिना न खगराजरथेन रथाङ्गिणा ।
न पविना मरुतामधिपेन च त्वदनुगैर्युधि यत्क्रियते नखैः ॥ १४ ॥
चलति मेरुरपांनिधिरुच्चलत्यवनिरेति समाप्तिमसंशयम् ।
प्रसरति प्रतिरुध्यं ककुप्पतीनधिसमीकमनीकभरे तव ॥ १५ ॥
 
अतिविदूरगतोऽपि गतागतक्षणनिरुद्धनखाशनिदोहदैः ।
हरिभिरेव न चैष न दृश्यते दशमुखो दशदिड्युखपातिभिः ॥ १६ ॥
सरभसार्थॆलिताश्च नभश्चरैर्नभास दत्तपथास्तव यूथपाः ।
 
अधिगतश्च शनैः पतिभिर्दिशां पिशुनितो निलयः पिशिताशिनः ॥ १७ ॥
 
प्रचरति प्रमना दिशि यत्र यः प्लवगराज स तत्र नियुज्यताम् ।
अनभिगम्यतमाः पुनरुत्कटस्थपुटगर्तगुहागहना भुवः ॥ १८ ॥
 
किमनिमित्तममी निपतन्ति वा सुवपुषो विषमाणि यतस्ततः ।
न खलु विश्वसिमीक्षितवानपि श्वसिति राजसुतेति सखेऽधुना ॥ १९ ॥
अनुचितामिह कामपि सा भुवं गतघृणेन बलाद्गमिताऽरिणा ।
'ध्रुवमग द्विलयं बलिनोद्धृता वनगजेन बलादिव पद्मिनी ॥ २० ॥
व्रज वली मुखनाथ यथागतं नियतमद्य न जीवति जानकी ।
विरहिता किरणैः कियतः क्षणानहनि चन्द्रकला न विलीयते ॥ २१ ॥
अपि तुलाग्रवशायद जीवति प्लवगराज तथा विपिनौकसाम् ।
इयमसाविति पूर्वमवीक्षिता कथमिवाध्यवसानमुपैष्यति ॥ २२ ॥
 
१. A. कृ । १. B C D नुद्य । ३. A भिखैमि । ४. A स्मररसा । ५. Dकु ।