This page has not been fully proofread.

सप्तमः सर्गः ।
 
ऐते निकामसरसस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः ।
यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥
ऐते तवैकसुभगस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दो ।
यान् सप्रतापभुवनेऽपि सदाऽभिसृत्य रात्रौ दिवा च रिपुराजरमा रमन्ते ॥
 
अथ सप्तमः सर्गः ।
 
सह नवार्ककरैरिव यूथपैः कपिरसावपरेरतित्वरः ।
जयसमाप्तिसमीक्षणपीडितो नृपतपस्विवरस्य पुरोऽभवत् ॥ १ ॥
तमहमग्रिकयोद्धुरवानरप्रसरवेगनिरोधसमाकुलम् ।
 
जय जयादिश किं क्रियतामिति त्वरितवाचमुवाच रघूहः ॥ २ ॥
अयि सुखेन सखे रजनी गता सुखमिदं समुपेतमहर्मुखम् ।
क्षणमितः शृणु केलिंसुखोचितान्कपिपतीन्प्रति यत्प्रतिभाति मे ॥३॥
स्मरति यो न गृहं निजमुन्मनाः त्रसति यश्च न जातु निशाचरात् ।
युधि च यस्य रसोऽस्ति स तिष्ठतु व्रजतु यः परवानिव सीदति ॥ ४
प्रभुतया प्रणयेन च कार्यवान्कमपि न त्वरयामि निरुद्यमम् ।
अभिसरश्च सुहृच्च स मन्ते भवति यः स्वयमापदि संक्रमः ॥ ५ ॥
अवसरोऽस्ति न मे वचनं प्रति प्रतिसदृक् स्वयमेव समाचर ।
उपनतार्थविदः परिपृच्छ वा स्वसचिवान् विनतप्रभृतीनिमान् ॥ ६ ॥
उपदिशत्यधुनैष किमृक्षराट् किमथ वक्ति समीरणनन्दनः ।
स्वरसतः क्व बलं नलनीलयोः शतबलिः किमिवाह महाबलः ॥ ७ ॥
दधिमुखः किमभीप्सति मातुल: कुलगुरुः किमु शास्ति च केसरी ।
स्फुरति चेतसि किं च कपीश्वर श्वशुरयोस्तव तारसुषेणयोः ॥ ८ ॥
क्व रभसः क्रमते रभरम्भयोः किमृषभः सरभश्च विधित्सति ।
अयमथ त्रपयाऽबनतो युवा वहति कीदृशमिङ्गितमङ्गदः ॥ ९ ॥
 
१. A D omit this sloka २. B D read this sloka ३. B C येनं ४. A मे मतो ।