This page has not been fully proofread.

प्रतिदिशं प्लवङ्गयूथसम्प्रेषणो नाम
 
निपतति निकटे शेर: समीर: स्वलति नगेषु मनश्च विप्रियेषु ।
अयमहतगतिः परं त्रिलोक्यां कपिरुपमानतिरस्क्रियानभिज्ञः ॥ ८४ ॥
 
घटयति
 
प्रतिहतिरहितस्य रूपवत्तामुपनयतः किरणस्य नायनस्य ।
अपि निपतति कापि कालमात्रा न हनुमतः पुनरिष्टवस्तुवार्ता ॥ ८५ ॥
परिशुद्धबुद्धिसूचीनिपुणनिवेशितसूक्ष्मसिद्धिसूत्रः ।
अयमिह रहसि प्रकामगुर्वी प्लवगवरः परकृत्यचीरकन्थाम् ॥ ८६ ॥
तारायास्तनयोऽयमार्यसदृशस्थामा कुमारोऽङ्गदः
प्रत्यङ्गाभरणाश्मरश्मिपटलीलिप्ताम्बरप्राङ्गणः ।
छायानिर्गमशीतलेŠहान गतः पर्यन्तभूमिं गिरे
 
राचर्या युर्वेयोग्यया विनयते संग्रामकण्डूलताम् ॥ ८७ ॥
 
कुल्योल्लङ्घनलाघवेन जलधीन् सप्ताप्यतिक्रामति
क्रामत्यंशुमतस्त्विषामविषयप्रान्तावनीभ्रस्थलीः ।
लाङ्गूलाग्रविषक्तमेघशकलः स्वर्दीर्घिकापद्मिनी-
किञ्जल्काचितकेसरः परिवहाद्वालोऽयमावर्तते ॥ ८८ ॥
 
सुग्रीवस्य स्तिमितनयनं पश्यतीक्ष्वाकुनाथे
यूथाध्यक्षानिति नियुतशः पद्मशः शङ्खशश्च ।
तद्वयापारोचितमित्र रविवी॑रैमाशूपनेष्य-
नापृच्छ्याहः पयास चरमस्याम्बुराशेर्ममज्ज ॥ ८९ ॥
 
अँहृदयमद्दीपालास्थानप्रणोदसमुद्भवो
 
भगवति चिरादश्रुत्पातः सरस्वति मृज्यताम् ।
नरपतियुवा पृथ्वीपालो निमज्जति संप्रति
 
त्वाय परमसौ शेषक्रीडारसे विरसायते ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सुग्रीववणितावदातप्रकृष्टयूथप्रधानवर्णनो
नाम षष्ठः सर्गः समाप्तः ॥
 
१ A स। २ BC र्ताम् । ३. दो । ४ A श्चर्यायुध । ५A । ६. C D omit this sloka,