This page has not been fully proofread.

षष्ठः सर्गः ।
 
अनुकृतनरलोकलीलनीलो
 
नगतलवतिंचमुसहस्रपालः ।
 
इइ बहलनवाश्मभेदवल्लीकिसलयशालिनि शावले निविष्टः ॥ ७९ ॥
स्फुरदनघविनीलभासि यस्य स्मितमिदमुज्ज्वलमानने चकास्ति ।
उदयशिखरिणस्तमालषण्डे शशिकिरणोत्थमिवाग्रशृङ्गभाजि ॥ ७२ ॥
घनमलिनमुखांशुजालधूमो विधुतकडारकचार्चिरुच्चकैर्यः ।
ज्वलति रिपुचमूसमित्समिद्धो मृधमखवेदिषु योऽर्थे जातवेदाः ॥ ७३ ॥
सरभसमवसाव्य वृक्षराजीः सृजति महाजिषु यत्र शैलजालम् ।
जगदुपलविभूतिरुद्धकृत्स्नक्षितिगर्गेनादिविभक्तिमीलतीव
अमुमनु हनुमानयं निपीदत्यवसितसर्वमहागुणप्रकर्षः ।
इतरतरुकुरङ्गशाबसाम्यव्यवहृतिकैलितिरोहितानुभावः
 
॥ ७४ ॥
 
॥ ७५ ॥
 
न वदति न विकत्ते न गर्जत्युपनयतीष्टमयं न वष्टि किंचित् ।
विचरति विनयानतश्च शश्वत्कथयति विक्रममात्मनो न चापि ॥ ७६ ॥
अयमरुणफलभ्रमाद्विभाते तपनमभिद्रवति स्म जातमात्रः ।
अपतदथ मरुत्पते: महारात्प्रथमतलाहतिपातिताभ्रनागः ॥ ७७ ॥
अनुपवनभिया मुहूर्तमात्रादजनि महाशनिविग्रहश्च तेने ।
बिबुधशतसभाजितोऽवतीर्णः क्षितिमयमिन्द्रपुरावलीमुखेन्द्रः ॥ ७८ ॥
 
दधदपि शिशुतामयं जितान्तःकरणतया परिणामवानिवास्ते ।
स्तनकलशमपान्न जातु पीतत्रिदेशवरामृतरञ्जनोऽञ्जनायाः ॥ ७९ ॥
विचरति परकारणेन कृत्स्नामयमणिमादिगुणेश्वरस्त्रिलोकीम् ।
क्षणविततमहासमाधितल्पः स्वपिति समानशिराः सदाशिवेन ॥ ८० ॥
अयमुभयमहापथान्तगामी जगति मतः क्रियया धिया च वीरैः ।
कथमपि न भिनत्ति पद्मयोनेः कलैलसमाप्तिचैलत्कपालमण्डम् ॥ ८१ ॥
गुणगुणिसमवायसन्धिगामी गमयति वर्त्म हशोरणूनशेषान् ।
परमयमनघः प्रविश्य दूरं चरति युतानयुतांश्च षट्पदार्थान् ॥ ८२ ॥
अधिसमरमरातिहस्तमुक्ताः शिखरभृतोऽस्तमिह क्षणेन यान्ति ।
जलमुच इव काला रुद्रे निधनसमीरणवेगविप्रकीर्णाः ॥ ८३ ॥
 
१. B D मम बलवर्ग । २. A माननमण्डले । ३. Aब्धि । ४. Bध ।५. Bम । ६. A म्यं प्रवहति
Bम्य व्यवहित । ७. A नः कदापि । ८. B यांशुमान्मुहूर्ता । ९. B स्वनेन । १०. A मातुनि । ११. B दवी ।
१२.A लि । १३. A व १४, C रणाभि ।