This page has not been fully proofread.

५२
 
सुग्रीववर्णितप्रकृष्टयूथप्रधानो नाम
 
कपिसुभटसमाजदत्तकर्णः किमपि किमप्ययमीक्षिताखिलाशः ।
हरिरिव हरिणोजितेन मैन्दः सह वदति द्विविदेन दर्पशाली ॥ ५८ ॥
क्षितिधरमनयोर्महेन्द्रमेकः श्रयति सुविग्रहबन्ध विन्ध्यमन्यः ।
समविभवमिदं समेत्य कार्याद्रिचरति वीरयुगं पुनर्जगन्ति ॥ ५९ ॥
मम पनसमुखास्तटीमिमां च प्रकटरुचोऽधिवसन्त्यमी वयस्याः ।
हरति रुचमयं शनैर्विवस्वान् प्रतिरुचि संवलनक्लमीव यस्याः ॥ ६० ॥
नवधनबलयैरिवाञ्जनाद्रिर्बहुलनिशीथ इवान्धकारपुखैः ।
अधिवसति वृतः सनभियूथैस्तटमिममुल्बणवृक्षमृक्षराजः ॥ ६१ ॥
जलनिधिमधु मेरुवीजकोशं कुलगिरिपत्रमनन्तभोगनालम् ।
इदमवनिसरोरुहं समन्तादलिरिव यो रमते निषेवमाणः ॥ ६२ ॥
विचरति लघुलब्धलोकपारः परमविविक्तविभूतिमद्भुतां यः ।
प्रलयैशिखिनि यञ्च कोटिकृत्वः स्मरति विलीनमिदं विधातुरण्डम् ॥ ६३ ॥
 
त्रिदिवपितृवनस्थलीषु पश्यन्नमरपरेतसमाजवैकृतानि ।
 
सह विचरति शम्भुनाऽनघो यः प्रलयनिशामुखसुप्तकरण ॥ ६४ ॥
अपि भृशविवशत्रिकस्त्रिलोकीमसकृदुपैति विलोक्य योऽधुनाऽपि ।
विमृशति पुनरात्मसंपरायं न परकृते कृतविक्रमः कुतोऽपि ॥ ६५ ॥
प्रकटमिव निरीक्षते निगूढं भृशमुपरीव भुवश्वरत्यधोऽपि ।
अनुभवति भवन्निभावुभौ यस्त्रिभुवनशत्रुसमाप्तिकालकालौ ॥ ६६ ॥
भ्रमति रविगभस्तिभिः सहोवीं दिवमधिरोहति गाहते हिलोकम् ।
करतलकर्लिंताखिलप्रमेयो न मृगयतेऽधिगमार्थमागमं यः ॥ ६७ ॥
अयमसुकरकर्मविश्वकर्मा कटकमगाधबलो नलोऽधिशेते ।
रमयति सहसाऽवतारितोऽयं दिव इव येन पताकिनीनिवेशः ॥ ६८ ॥
उपरि शिखरिणः पयः प्रतीच्छन्त्यवनिरणोरपि शीर्यते भरेण ।
वितरति चतुरङ्गवाहिनीनां वियदवलम्बनमिच्छयाऽऽशु यस्य ॥ ६९ ॥
न दिवि न भुवि नाग्रतो न पश्चात् क्षणमवभाति विहन्ति सर्वतश्च ।
रचयति किमपीन्द्रजालमुच्चैः समितिषु यश्छलयोधनाँदरीणाम् ॥ ७० ॥
 
१. A कपिश २. B भिसरति चमूचरा । ३. BC अवधि । ४. BC पश्च । ५. BC क्षमो । ६. B निहि
७BD घिनाम ।