This page has not been fully proofread.

षष्ठः सर्गः ।
 
अधिशयितसमस्तविन्ध्यसानुर्वनमनुवेदि विचित्रचित्रलीलः ।
अयममृतमरीचिसंभवायाः कलकलमश्मसु वारिणः शृणोति ॥ ४६ ॥
 
अनुसरति खरातपेऽह्नि तापी मयमुभयान्तमहीरुहातपत्राम् ।
तरलयति परिप्लवो विदर्भ पुरमनघाभिकलीलयाऽथ सायम् ॥ ४७ ॥
 
क्षतशतविषमीकृतोद्भटाक्षि भ्रुवचिबुकोष्टललाटशङ्ख सकः ।
कपिरकृपणमग्रतः प्रतीष्टप्रतिभटहेतिरयं च दुर्मुखाख्यः ॥ ४८ ॥
 
निजबलयुवभिर्विलक्ष्यमाणप्रकटजरवणमण्डलोपशल्यः ।
सुखवलितसकण्टकाङ्गयष्टिश्चिरमधिशेत इवैष मीलिताक्षः ॥ ४९ ॥
गुरुगिरिशिखरौघयुद्धयोग्यो जनितनिकामपरिश्रमोऽधिशेते ।
अयमचलनितम्बभिन्नवेण्णा तटॅविपिनानि वनौकसामधीशः ॥ ५० ॥
 
दधिमुख इति मातुलो ममायं दधिधवलाननदीधितिप्रतानः ।
कथयति' निभृतो रणावदानं किणविषमेण भुजान्तरेण वीरः ॥ ५१ ॥
परिमलभरवाहिवाहिनीकः कुमुद इति प्रमनाः प्लवङ्गमोऽयम् ।
तव नृपतिहिमत्विषः पुरस्ताल्लसति शुचिस्मितकान्तिना मुखेन ॥ ५२ ॥
 
पिशुनितसविशेषविक्रमोष्मा विरलितवानरवीरवृन्दवादः ।
अनुभवति वनान्तगन्धवाहं प्रियसुहृदेष च गन्धमादनो मे ॥ ५३ ॥
 
सुरशतनिलयोऽमुना सलीलं कृतपरिवेषविवृत्तिवन्धवेगः ।
प्रवहवशविसंस्थुलाय वेझि स्पृहयति नाम्बुरुहकवन्धवेऽगः ॥ ५४ ॥
 
प्रलयघनगभीरकण्ठगर्जो गजनियुतद्रविणो गजाभिधानः ।
प्लवगभटयुवा जवोत्तरत्वादयमुदिताग्रहणः समीरणेऽपि ॥ ५५ ॥
मुहुरनिलविमानशंवरालीललनविसोडविशालपुच्छदण्डः ।
 
सह दिनपतिना कुतूहलित्वादयमपि देव दिवः प्रयाति पारम् ॥ ५६ ॥
अयमुपचरति प्रसादवर्षैः सदसि वलीमुखवृन्दमिन्द्रजानुः ।
निजबलखुरलीमयं च पश्यत्यपसृतसंमुखसैनिको रुमण्वान् ॥ ५७ ॥
 
१. BD र्भक १ २. A B बिंबवण्यास्त । ३. A परिणत । ४. Dर । ५ BC मानपुच्छ्वेगः ।.