This page has not been fully proofread.

५०
 
सुग्रीववर्णितप्रकृष्टयूथप्रधानो नाम
 
अयमुरुविधिभार भारतेऽस्मिन्नखिलविशेषविचक्षणः क्षणेन ।
अनुमलयमुदीक्ष्य सिन्धुवेलां विलसति बिन्दुसरस्तद्रुमेषु ॥ ३४ ॥
नतनगनिवहस्य पादमुच्चैः श्रयति सदाऽयमुमापितुः पवित्रम् ।
सुरगजदशनौघमार्गनिर्यत्रिदशनदीसलिलारवश्रवोत्कः ॥ ३५ ॥
 
पिबति च नृपचन्द्र चन्द्रभागामुरुपरभाग विगाहते वितस्ताम् ।
विलसति पुलिनेष्वयं शतद्रोर्निवसति रोघसि देव देविकायाः ॥ ३६ ॥
 
परिचरति नरोपसेवितेति प्लवगवरो बदरीमयं वरेण्याम् ।
अनुसरति सरस्वतीं च पुण्यां प्लवगगुरुः कुरुजङ्गलस्थलीषु ॥ ३७ ॥
 
अविहितविकृतिर्मरोरतीत्य प्रतिदिनमुष्णतरङ्गिणीरपाराः ।
परमयमवगाहतेऽम्बिकायाः पितुरतिशैत्यदुरासदां हिमानीम् ॥ ३८ ॥
 
हरिपतिरयमुत्तरापथश्रीपरिमलदोहददूरनिर्गतोऽपि ।
 
मम सदनमुपैति सोपदानः प्रियतनयापतिगन्धगौरवेण ॥ ३९ ॥
अयमलसविवर्तितैकपाणिः प्रणयिमुखार्पितवीक्षणो गवाक्षः ।
कपिसुभटसमाजमध्यवर्ती वदति किमप्यवलेपदुर्बलास्थैः ॥ ४० ॥
 
पितृपतिपिशिताशपात्रकानामयमुपदानपरम्पराः प्रतीच्छन् ।
निवसति सविलासमृक्षसा शिखरिण दक्षिणदिग्विहारशीलः ॥ ४१ ॥
अविरतमपरान्तसिन्धुवेलामनुवलमानविलोचनो ऽधिशेते ।
अयमनिभृतवाहिनीविमर्दद्रुतमृगराजर्शतं प्रसह्य सह्यम् ॥ ४२ ॥
 
विचरति चुलुकोद्धृताम्बुराशेः प्रसभमृपेरयमाश्रमद्रुमेषु ।
प्रतिमलयरुहं हसन् विकृष्य प्रणुदति पाणियुगेन पन्नगौघान् ॥ ४३ ॥
 
तटशिखरगतस्तटान्तराग्रस्खलित करालविशालपुच्छदण्डः ।
कुहनैं इव रुणद्धि ताम्रपर्णीमयमनिशस्फुटमौक्तिकमतानाम् ॥ ४४ ॥
 
विलसदुभयकुण्डलाश्मदीपस्फुटमुख एष दरीमुखश्चकास्ति ।
सदयसितमुग्धपार्वतीयप्लवगशिलाजतुसंप्रदानपूरैः ॥ ४५ ॥
 
१. B निवं । २. BC ण्योपचय ३. A हतविह्नतिर्गिरे । ४. BC स्यः । ५A संझे । ६. B जि ।
७A1८. A प्रसारां । B कावदातां । ९. हरीश्वर । १०. ABCग।