This page has not been fully proofread.

षष्ठः सर्गः ।
 
अयमपि च निवातनिश्चलाब्धिस्तिमितमहाकपियूथपानुयातः ।
श्रुतसविधनिविष्टटद्धवाक्यो विनयनिधिविनतः शिरो धुनोति ॥ २२ ॥
अयमुदयगिरेः शिरोऽधिशेते चरति नदस्य तटेऽरुणोदकस्य ।
अभिपतति च शाल्मलीं मुहुस्तामहिकुलशत्रुकुलायभूषिताग्राम् ॥ २३ ॥
 
सितजलमपरं ततोऽब्धिमेष प्लवगपतिः पतति प्रयोजनेन ।
स्थलकमलवनस्थितं नमस्यत्यथ भगवन्तमनन्तमादिदेवम् ॥ २४ ॥
दिशि दशशतनेत्रपालितायामयमखिलानवलोक्य सन्निवेशान् ।
उपनमति हरिर्हरौ हयास्ये भगवति भद्रकदम्बगोचरे च ॥ २५ ॥
 
विनयचलितवालधिर्विलासस्मितमधुरौननमण्डलो बलानि ।
अयमपि च किमप्युदञ्चितनूर्वदति विरिञ्चिसुतोऽथ केसरीति ॥ २६ ॥
 
शरदमलतले नभस्युडूनां ततिमिह यो मतिमानवच्छिनत्ति ।
कलयति स चमृपतेरमुष्य स्फुटमहसामनुजीविनामियत्ताम् ॥ २७ ॥
कुलभवनममुष्य भूभृतोऽष्टौ चरितचरं चतुरब्धिकूलमस्य ।
अभिनववयसा नवाप्यनेन क्षितिशकलानि बलीयसा जितानि ॥ २८ ॥
 
उपरि चरति गन्धमादनस्य श्रयति सुमेरुममर्त्यसौहृदेन ।
व्रजति कृतैकुतूहल: कुलाद्रीनयमितरानपि कार्यगौरवेण ॥ २९ ॥
 
४९
 
परिणतिशिथिलोऽपि लङ्घतेऽब्धीनयमधुना मधुना समानवर्णः ।
करबदरनिभामिमामवैति क्षितिमुदितो मुदितो वलीमुखेन्द्रः ॥ ३० ॥
 
अयमनघनरावतार तारस्तरुणदिवाकरमण्डलोपमास्यः ।
प्रतपति पृतनाशिरोमणीनामुपरि महाद्विवनौकसामधीशः ॥ ३१ ॥
क्षितिमयमनुशोचति प्लुतार्घादधिगतसीमशिलोच्चयापरान्ताम् ।
करकलितरविर्विलङ्घि·तेन्दुर्दिवमाभिनन्दति वर्धमानशेषाम् ॥ ३२ ॥
 
कृतवसतिरयं कपिः कुमार्यासवनिमनार्यजनां न याँत्यकार्यः ।
कतिचन मसृणोच्चकूटकोटीन् जनयति केलिगतागतेन शैलान् ॥ ३३ ॥
 
१. ABलि २. D हयस्थे ३. A बिशदा । ४. CD चरति च । ५. C गत । ६. A विपि
 
७. A नानुशास्य C नां तयान्य ।