This page has not been fully proofread.

सुग्रीववर्णितप्रकृष्टयूथप्रधानो नाम
 
अभिपतति सुमेरुचक्रवालं निषधतटादयमेकविक्रमेण ।
कृतकनकजलापगावगाहः फलमभिलष्यति चैष चैत्यजब्बः ॥ १० ॥
अपि मुहुरमरौघसीमरुद्धः पवनमुखश्रुतरामणीयकस्य ।
अयमतिरभसप्रवेशहेतोश्चलयति भित्त्यचलानिलावृतस्य ॥ ११ ॥
 
तढिदिव तरलस्ततो विराजत्युपरि सुपार्श्वमहावटमस्य ।
नवमिव जलवाहमंशुमाली नगमथ गच्छति लीलयैष नीलम् ॥ १२ ॥
 
विधिविरचितरत्युपायरम्यं रमणकमुञ्चमनोरथोऽनुभूय ।
क्षणमुपरि सिताचलस्य पश्यत्ययमुपविश्य हिरण्मयं च वर्षम् ॥ १३ ॥
निजमणि देहली समाख्याजितविपुलायतशृङ्गिशृङ्गमाल ।
विचरति कुरुत्तरेषु पश्यन्नयमचलौ शशिकान्तसूर्यकान्तौ ॥ १४ ॥
 
अधिवसति सकल्पशाखिषण्डां तटभुवमुत्तरसीमसागरस्य ।
मम भवति पुरश्च कार्यकाले स्मृतिसमकालमयं वलीमुखेन्द्रः ॥ १५ ॥
 
ज्वलदनलविकृष्टहेमगौरस्त्रिजगति विश्रुतविक्रमऽयमुच्चैः ।
हरिपतिरचलेश्वरस्य मेरो: सदृशशिराः श्वशुरोऽस्ति मे सुषेणः ॥ १६ ॥
अतिलघुपरतिप्रगल्भर तिविशदप्रतिभैरतिप्रभूतैः ।
अतिविततगुणैर्गणैरिवोग्रः प्लवगभरयमावृतो विभाति ॥ १७ ॥
 
दिशमयमधितिष्ठति प्रतीचीमपर इवापरिशीतलः प्रचेताः ।
स्मृतिशमितमहाधिरोषधीभिः निजकरणीयमुपेत्य पृच्छयमानः ॥ १८ ॥
 
विहसितविरसागदोपयोगो गदमतिरूढमपि प्लवङ्गमोऽयम् ।
गमयति सहसा दृशैव दूरं तिमिरमित्र प्रभयाऽरविन्दबन्धुः ॥ १९ ॥
 
निहितहि मनिजावलोकपिण्ड: समितिषु रोपयति क्षणाद्वणानि ।
घटयति च पृथकृतैः मतीर्केरयमभिमृश्य करोदरेण वीरान् ॥ २० ॥
त्यजति जगति केवलं न संप्रत्यसुरजयी भगवान् गदानुबन्धम् ।
सच परमचिकित्सितोग्रशूलो भुवनगुरुर्भिषजोऽस्य वीक्षितेन ॥ २१ ॥
 
१. B वृक्षात् D चैत्यकालजधाः । २. B C रोधसा । ३. B सुत । ४. Aव। ५. B गृहमनु ।
६. BC गौरवो ७. A प्रति ।