This page has not been fully proofread.

षष्ठः सर्गः ।
 
श्याम: सितासितनिरायतपक्ष्मलाक्षः
क्षामोदरः कठिनकान्तभुजान्तरालः ।
सर्वाङ्गपल्लवित यौवनलाञ्छनश्रीः
 
श्रीहारवर्ष कुत्र पतिः पृथिव्याः ॥
 
अथ षष्ठः सर्गः ।
 
तराई
 
अथ कृतदिवसैस्थितिः कपीशः कपिविनिवेशविलोकनोन्मुखस्य ।
सविनयमुपसर्पणक्षणज्ञश्चरणसमीपमियाय राघवस्य ॥ १ ॥
प्रणयरभुसपूजितेन तेन प्रियसुहृदा सह लक्ष्मणानुयातः ।
वलसमुदयमीक्षितुं पुरस्तात्परिसरमुच्चशिलं जगाम रामः ॥ २ ॥
अथ सदृशविलासदीप्तशोभं कपिकटकं विकटं तमीक्षमाणः ।
अरमत समकालमुक्तनिद्रं कमलवनं शरदीव राजहंसः ॥ ३ ॥
इति च वितविस्मयाय तस्मै तरणिसुतः श्रुतविक्रमावदानान् ।
अकथयदवलोकनानुयुक्तः पृथगभिधामभिधाय वानरेन्द्रान् ॥ ४ ॥
अयमतिवहुदीप्तसंविधानः शतवलिरुत्तरवेदितन्त्रपौलः ।
दशदशशतकोटियूथपेश: त्रिदशपतिप्रतिमः प्लवङ्गवीरः ॥ ५ ॥
कतिपयगणगोचरानुदीचः चरति चमत्कृतकिन्नरोपगीतः ।
अयमलघुपराक्रमः प्रदेशानवनिभृतत्रिपुरारिपूजितस्य ॥ ६ ॥
अयमुपनतिरुद्धरुद्रकोपः कपिपतिरैलविलस्य मेदिनीधे ।
तरलयति समाधिनिश्चलानामुपकरणानि कुतूहली मुनीनाम् ॥ ७ ॥
भृगुपतिशरवर्त्मनैप तिर्यविरचितमुक्ष्मसुदीर्घदेहबन्धः ।
उपहितगुहमत्सरं महीधं मणिमिव सूत्रमतीत्य निष्प्रयाति ॥ ८ ॥
जनयति न भयं हयाननानामधिगतकिंपुरुषेश्वरोपहारः ।
हरिरयमधिरुह्य हेमकूटं हरति मनो हरिवर्धवासिनां च ॥ ९ ॥
 
१. A पृथुभुजान्तरकान्तिशाली । २. B दिवसकृत । ३. B धृ । ४. A तन्त्रवेद । ५. A नघ
 
६. A गणानां