रामचरितम् /78
This page has not been fully proofread.
सुग्रीववर्णितप्रकृष्टयूथप्रधानो नाम
सखीन् समाहर्तुमिमानितो मया पुरीप्रवेशोऽनुमतस्त्वयोदितः ।
शठोऽप्युपेक्षेत तथा किमन्यथा दिनानि मेघोदयदारुणानि ते ॥ ८३ ॥
प्रसीद सौम्यानन पद्मपद्मशः प्रयान्त्यमी दिग्विजयाय यूथपाः ।
निसर्गलोलाः कपयो नँ जातुचित्स्वचित्तसंवेगविधारणक्षमाः ॥ ८४ ॥
दृष्टां शृणोषि हरिभिस्तरसाऽद्य सीतां चिन्तामिमामतिभुवं सहसा ग्रसीताम् ।
कीर्तिं श्रियं च न चिरात्पुनरेकपीनां साहायकेन तनुषे समरे कपीनाम् ॥ ८५ ॥
कालो मयाऽनघशरत्पदवीरसेन क्षिप्तः समेतवनगोचरवीरसेनः ।
प्राप्ताः प्लवङ्गपतयः सुतरां त्वरन्ते शाधि प्रसीद किममी जनयन्त्वरन्ते ॥ ८६ ॥
इति तं वदन्तमवदत्प्रियं प्रभुः पथिजं त्यजन्तु कपयः परिश्रमम् ।
भृशमेत एव सुधियः सुखोचिंताः परतः प्रमाणमिर्हे कामकेलयः ॥ ८७ ॥
कटकं निवेश्य कटकेऽथ भूभृतः कतिभिश्चिदानिलिमुखैः सुहृत्तमैः ।
सहितश्चिरात्परिचचार चाटुभिः शिखरस्थितं हरिपतिर्जगत्पतिम् ॥ ८८ ॥
अव्याजतां च विनयं च कृतज्ञतां च दाक्ष्यं च धाम च धियं च तथाऽभिवीक्ष्य ।
तं समुखेऽपि सहसांत्पुलकाङ्गयष्टिः तुष्टाव तुष्टितरलस्तिलको रघूणाम् ॥ ८९ ॥
चिन्ताकुलेऽपि हृदि सप्रणयोपचार: सातषि कष्टदशाकृशेऽपि ।
धन्योऽयमस्मदधिपः सुहृद्प यस्येत्येकशस्तमनिशं कपयोऽभिदध्युः ॥ ९० ॥
निकटनिजविधिभ्यां सोऽनुमेने तदानींमवनिपतिसुताभ्यामादरेणाविकाय ।
स्वनिलयगतमात्रः सुप्रतीपागमाभिः कपिपतिरुपदाभिस्तावजस्रं सिषेवे ॥ ९१ ॥
अकृतविहगानीकोद्वेगो मृगैः सह सख्यवान् फलकुसुमयोरप्यादानं प्रति स्तिमितादरः ।
रघुतिलकयोरत्यासन्नश्चकार कुतूहलं विनयलिखितः स्कन्धावार : प्लवङ्गपतेरसौ ॥९२॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये रामसुग्रीवसंवादो नाम
पञ्चमः सर्गः समाप्तः ॥
१. A वृ । २. A हि Bनु । ३. A न्न । ४. Aषि । ५. A मभि । ६. A B बलश्च ७, B च ।