This page has not been fully proofread.

रामसुग्रीवसंवादो नाम
 
तदैव कालीकरणाय सन्ततेरकीर्तिभूतिर्महती मयार्जिता ।
इहाचले वर्षभयाविहाय वां गतो यदैवाहमधित्वरः पुरीम् ॥ ५९ ॥
इतः कृतघ्ने मयि मन्दिरं गते गतेऽतिभूमिं विरहेऽतिदारुणे ।
 
वने विनोदान्तरवर्जिते गताः कथं नु देवस्य नभस्यवासराः ॥ ६० ॥
तथा चतुमो कदर्थना शादतिप्ररूढं तव तानवं तनौ ।
 
यथा निसगाद्धुरयापि सम्प्रति त्विषा तिरोधातुमिदं न शक्यते ॥ ६१ ॥
प्रमत्तमात्मंभरिमप्रतिष्ठितं घिगस्तु मां शत्रुमिमं सुहृन्मुखम् ।
निमित्तमाधेरधिकस्य तेऽधुमा यदेष जोतोऽहमतीतसङ्गरः ॥ ६२ ॥
न बोधितः स्यामुपसृत्य चेदहं हनूमता जाम्बवता च बन्धुना ।
तवैष मूलं महिमप्रमीलितस्ततः किमद्यापि भवेयमागतः ॥ ६३ ॥
प्रसीद तेजः प्रतिहन्यते न मे नमन्ति मां पक्षिसरीसृपा अपि ।
निपातितः शत्रुरुपाश्रिताः श्रियस्त्वयैव नीता मम दूरमीतयः ॥ ६४ ॥
रुचेयमारौजति यावती रवेरहं महीमद्य भुनज्मि तावतीम् ।
तथा समुत्तीर्णसपत्नतोयधेर्ममाधुनाऽमी क इवाम्बुराशयः ॥ ६५ ॥
यथातथाऽहं विहरामि निर्वृतो विमुक्तचिन्ताः सचिवाः स्वपन्त्यमी ।
ममास्पदे रुद्धस्
मरं तवैव जागर्ति जगत्पतेर्महः ॥ ६६ ॥
 
प्रसीद कम्पः क्वचिदस्ति नाद्य मे भवत्पदानुग्रह निर्धुतापदः ।
समादिशादेशकरोऽहमागतः स मृग्यतां दिक्षु विदिक्षु राक्षसः ॥ ६७ ॥
अमी विविच्य प्रवरा वनौकसो मयोपनीता नवखण्डवासिनः ।
गताध्वनामारविरश्मिगोचराद्विचिन्तयैषामुपयोगसत्क्रियाम् ॥ ६८ ॥
अमी च दुग्धोदतटान्तवासिनः सुर्धांब्धिवेलानिलयैः सहागताः ।
प्रतीक्षमाणा नियमं तवासते यथाभिकामप्रसराः प्लवङ्गमाः ॥ ६९ ॥
अयं कुशद्वीपचरः प्लवङ्गराट् निरङ्कुशः शङ्कुसहस्रनायकः ।
दशाननान्ताय मयोपमन्त्रितः पुरस्तवाज्ञा बहुमानमर्हति ॥ ७० ॥
 
१. BC मां यदैवयातो । २. A या । ३. B हया C द्धया। ४. BC कृपा । ५. B शप्रेषकरोय ।
 
६AB