रामचरितम् /75
This page has not been fully proofread.
पञ्चमः सर्गः ।
ततः प्रफुल्लस्थलपद्मिनीनिभा सभोपतस्थे सहसा वनौकसाम् ।
तमीरितश्लाघ्यरुचिं नरेश्वरं ग्रहेश्वरं यातमिवाभिरामताम् ॥ ४७ ॥
जगाद भावं वचसैत्रे जाम्बवानुवाह हर्षे पुलकेन केसरी ।
ततान तारस्तरलोऽतिसंभ्रमं ननाम तूष्णीमथ वालिनन्दनः ॥ ४८ ॥
विलम्बदोपान्निजभर्तुराननं विलज्जमानोऽनिलसुनुरक्षत ।
निशम्य तत्पूर्वमगर्वमूजितं ननन्दतुः सूनृतमश्विनन्दनौ ॥ ४९ ॥
सुवाक्सुधासारसमीरवीजिता: सुपेण मिश्रा : श्रममध्वजं जहुः ।
सुखममीलामुकुलीकृतेक्षणः क्षणं समाधिस्थ इवाभवन्नलः ॥ ५० ॥
शशाक रोद्धुं रभसो न संमदं मदादिवाघूर्णत गन्धमादनः ।
व्यकत्थत व्यक्तरदाग्रचन्द्रिकानिरूद्धनिष्कांशुचयोऽथ चन्दनः ॥ ५१ ॥
प्रतिक्रियारम्भर
सोच्चकन्धरो रराज रम्भः कपिराजसंसदि ।
धुताञ्चितास्फोटितवालधिर्वलन्वभौ बहुव्याकृतराभसो रभः ॥ ५२ ॥
विचक्रमेऽर्थं क्रमवेगविक्रियाविकाशदत्तारिदरो दरीमुखः ।
तदावलेपस्मितकान्तिनिर्गमाददार्श संज्ञासदृशं न दुर्मुखः ॥ ५३ ॥
विदर्शितोत्प्रासलवे सुहृत्तमे किमुत्तरं संप्रति मन्थरस्य ते ।
इतवि जल्पन्वलितारुणेक्षणो रुपं रुमण्यानवहत् कपीश्वरे ॥ ५४ ॥
वचोमनःकायनिवेदितत्वरा परीत्य रामं शुशुभेऽथ सा सभा ।
दिनाबलोकक्रमभिन्नकुङ्कला सरोजिनी पाद्गतेव पर्वतम् ॥ ५५ ॥
अथेक्षितर्क्षेन्द्रसमीरनन्दनो हरीश्वरः प्रत्यवदन्नरेश्वरम् ।
निषेधयन्नुद्रलयेन पाणिना मुहूर्तमुद्योगपरिप्लान्कपीन् ॥ ५६ ॥
न जातु जानन्त्यनुरोधशलिनो भवादृशा वक्तुममूनृतं वचः ।
यदेप दासोऽहमपि प्रमादवान्वयस्यसंभावनया सभाजितः ॥ ५७ ॥
निराशिषा निर्निलयेन मेदिनीमिमामटित्वा निभृतेन कुत्रचित् ।
तव प्रसादाद निमित्त सुप्रभोरिदं मयाप्तं पदमात्मनश्चिरात् ॥ ५८ ॥
१. A जा । २. BC चानन्तरमेव । ३. B निलि: C नलिः । ४. BCन । ५. BC मै । ६. B
C वि । ७. A ददर्श B द्वदर्शि । ८. A व्याहनिजा । ९B वेश । १० D पा ।