रामचरितम् /72
This page has not been fully proofread.
स्मितेन वाचाऽभिनयैरभिज्ञया दृशाऽनुरूपासनदेशनेन च ।
झगित्यनैषीद्बहुमानपात्रतां पृथक् पृथग्यूथपतीन्जगत्पतिः ॥ ९ ॥
अहं सुदृष्टो मम दत्तमासनं ममापि नामात्त[^१]महं सभाजितः ।
इति प्रसादाज्जहृषुर्जगद्गुरोः प्लवङ्गवेषस्थगिता दिवौकसः ॥ १० ॥
अथोपविष्टेषु कपिष्वनुक्रमात्पराक्रमाकूत[^२]विशेषशंसिषु ।
समृद्धसामग्र्यमनोरथश्चिरादुवाच सुग्रीवमुदीक्ष्य राघवः ॥ ११ ॥
सखे महाराज दिवाकरात्मज त्यज त्रपामुन्नमयाननाम्बुजम् ।
ध्रुवं न सुप्तोऽसि निशीथिनीमपि प्लवङ्गयोधानियतः समाहरन् ॥ १२ ॥
बलोदयेनैव महर्धिनाऽमुना ककुप्सु सौराज्यमुदीरितं तव ।
अनेन सर्वाङ्गसमर्पणेन च न्यवेदि सौहार्दमपि स्फुटं मयि ॥ १३ ॥
न संशयः सच्चरिते तवास्ति नः परीक्षितोऽसि प्रथमे समागमे ।
भवादृशानां नच धी[^३]विपर्ययस्तथापि हार्दादनुयोगमर्हसि ॥ १४ ॥
अवेक्ष्य कच्चिन्निजमण्डलं भवान् प्रकामसंप्राप्तशम: समागतः ।
कृताऽथ गूढस्पशचक्षुषा भृशं त्वयाऽरिमध्यस्थसुहृद्विचारणींणा[^४] ॥ १५ ॥
प्रतिष्ठिता श्रीर्विपुलेयमद्य ते वृतोऽसि मौलैर्यदुपेत्य यूथपैः ।
विशेषितस्वामिगुणेन वालिनि त्वया कृताः कच्चिदमी निरुत्सुकाः।।॥ १६ ।॥
अलम्भि कच्चिद्युवराजसत्क्रियामसौ परित्याजितभीतिरङ्गदः ।
तथैव तिष्ठस्यधिकाहितादरो मते चतुर्णामथ पूर्वमन्त्रिणाम् ॥ १७ ॥
शृणोषि कच्चिद्वचनं विपश्चितामथोद्धतानां नुतिभिर्न तुष्यसि ।
प्रवर्तसे कर्मसु चोदनावशात्प्रभुस्तवेच्छारभसो न कुत्रचित् ॥ १८ ॥
असौ विशेषात्परिबृंहितो वृषः सुरक्षितेयं क्षरतीहितानि गौः ।
प्रसाधयन्काननगोचरत्र व्रजानुपैषि कच्चिज्जगदेकगोपताम् ॥ १९ ॥
पुरस्कृतप्राज्ञकुलीनदेशकः कुलोचितैर्गच्छसि कच्चिदध्वभिः ।
न कच्चिदाच्छिन्नविवेकरश्मिभिर्दुरिन्द्रियाश्वैर्विषमे[^५]षु पात्यसे||॥ २० ॥
समेतैत[^६]नानाविधसूक्ष्ममूलभूर्भवद्रुमोऽयं बहुभेदजालकः ।
विविच्य कच्चिद्दुरितालिदुर्गमं त्वया त्रिवर्गप्रसवं विचीयते ॥ २१ ॥
१.[^१] A न्त ।
[^२. Å हू । ] द्भू ।
[^३.] B तुधी ।
[^४.] Be णात् ।
[^५.] A ये ।
[^६.] A त्य
[^७.] Ac प्रपर्व ।
ग्रपर्व ।
झगित्यनैषीद्बहुमानपात्रतां पृथक् पृथग्यूथपतीन्जगत्पतिः ॥ ९ ॥
अहं सुदृष्टो मम दत्तमासनं ममापि नामात्त[^१]महं सभाजितः ।
इति प्रसादाज्जहृषुर्जगद्गुरोः प्लवङ्गवेषस्थगिता दिवौकसः ॥ १० ॥
अथोपविष्टेषु कपिष्वनुक्रमात्पराक्रमाकूत[^२]विशेषशंसिषु ।
समृद्धसामग्र्यमनोरथश्चिरादुवाच सुग्रीवमुदीक्ष्य राघवः ॥ ११ ॥
सखे महाराज दिवाकरात्मज त्यज त्रपामुन्नमयाननाम्बुजम् ।
ध्रुवं न सुप्तोऽसि निशीथिनीमपि प्लवङ्गयोधानियतः समाहरन् ॥ १२ ॥
बलोदयेनैव महर्धिनाऽमुना ककुप्सु सौराज्यमुदीरितं तव ।
अनेन सर्वाङ्गसमर्पणेन च न्यवेदि सौहार्दमपि स्फुटं मयि ॥ १३ ॥
न संशयः सच्चरिते तवास्ति नः परीक्षितोऽसि प्रथमे समागमे ।
अवेक्ष्य कच्चिन्निजमण्डलं भवान् प्रकामसंप्राप्तशम: समागतः ।
कृताऽथ गूढस्पशचक्षुषा भृशं त्वयाऽरिमध्यस्थसुहृद्विचार
प्रतिष्ठिता श्रीर्विपुलेयमद्य ते वृतोऽसि मौलैर्यदुपेत्य यूथपैः ।
विशेषितस्वामिगुणेन वालिनि त्वया कृताः कच्चिदमी निरुत्सुकाः
अलम्भि कच्चिद्युवराजसत्क्रियामसौ परित्याजितभीतिरङ्गदः ।
तथैव तिष्ठस्यधिकाहितादरो मते चतुर्णामथ पूर्वमन्त्रिणाम् ॥ १७ ॥
शृणोषि कच्चिद्वचनं विपश्चितामथोद्धतानां नुतिभिर्न तुष्यसि ।
प्रवर्तसे कर्मसु चोदनावशात्प्रभुस्तवेच्छारभसो न कुत्रचित् ॥ १८ ॥
असौ विशेषात्परिबृंहितो वृषः सुरक्षितेयं क्षरतीहितानि गौः ।
प्रसाधयन्काननगोचर
पुरस्कृतप्राज्ञकुलीनदेशकः कुलोचितैर्गच्छसि कच्चिदध्वभिः ।
न कच्चिदाच्छिन्नविवेकरश्मिभिर्दुरिन्द्रियाश्वैर्विषमे[^५]षु पात्यसे
समे
विविच्य कच्चिद्दुरितालिदुर्गमं त्वया त्रिवर्गप्रसवं विचीयते ॥ २१ ॥
[^२
[^३
[^४
[^५
[^६
[^७