This page has been fully proofread once and needs a second look.

तथा[^१] तूर्णं कवेः कस्य निर्गतं जीवतो यशः ।
हारवर्षप्रसादेन शातानन्देर्यथाऽधुना ॥
 
न[^२]मः श्रीहारवर्षाय येन हालादनन्तरम् ।
स्वकोशः कविकोशानामाविर्भावाय संभृतः ॥
 
[^३]किमिन्दुना चन्दनवारिणापि किं किमब्जकन्दैरभिनन्दवत्सलः ।
विचिन्त्यतामान्तरतापशान्तये स केवलं विक्रमशीलनन्दनः ॥
 
अथ पञ्चमः सर्गः ।
 
अथाञ्जनेयाहितसौष्ठवोऽपि सन्कपिश्चकम्पे स विलोक्य लक्ष्मणम् ।
समागमे धामविशेषशालिनां न साध्वसं रोद्धुमलं महानपि ॥ १ ॥

सगौरवस्नेहरसाद्रभारतीनिवारितार्नेन[^४]भ्युपपत्तिचाटुना ।

स तेन लक्ष्मीभरदूरबन्धुरो हरीश्वरः सञ्जघटे महात्मना ॥ २ ॥

ततः प्रतस्थे रघुनाथसन्निधिं सहामुनाऽग्रेसरगान्धवा[^५]हनिः ।
प्रधानयूथानुगतः प्लवङ्गराट् भयत्रपाहर्षबलात्क्रियाकुलः ॥ ३ ॥

ननाम सौमित्रिनिषिद्धसाध्वसः स रामभद्राय सहानुयायिभिः ।
असौ समानीतसमस्तबान्धवस्तवाग[^६]तो दास इति ब्रुवन्पुरः ॥ ४ ॥

अयं महाराज न राजते क्रमस्तवेत्यवस्थोचितया सपर्यया ।
पुरः प्रतीयेष चिरादुपस्थितं प्रियातिथिर्दाशरथिः[^७] सुहृत्तमम् || ।।

कृतानतीनुत्तमयूथपानसौ गृहीतनाम्नः पवमानसूनुना |
ददर्श हर्षा श्रुजडेन चक्षुषा मनुष्यदेहान्तरितो जनार्दनः ॥ ६ ॥

नवाम्बुवाहच्छविरग्रतोनमत्पिशङ्गशाखामृगसिंहसंहतिः ।
पुरःस्फुरद्धाबालपतङ्गदीधितेरुवाह शोभामुदयाचलस्य सः ॥ ७॥

ततस्ततस्ते परिणाहशालिनी: शिलाः शिलाभेदचयोत्तरच्छदाः ।
रघुवीर त्रिपताकदेशिताः समं समध्यासत यूथपोत्तमाः ॥ ८ ॥
 
[^.] A reads this only.
[^
.] B reads this only.
[^
.] C reads this only.
[^
] A त्य ।

[^.] A मार्ग
[^
] A | ग्र ।
[^
] BC प्राध्वनयं ।
[^
] B शाब |