This page has not been fully proofread.

तथा[^१] तूर्णं कवेः कस्य निर्गतं जीवतो यशः ।
हारवर्षप्रसादेन शातानन्देर्यथाऽधुना ॥
 
न[^२]मः श्रीहारवर्षाय येन हालादनन्तरम् ।
स्वकोशः कविकोशानामाविर्भावाय संभृतः ॥
 
किमिन्दुना चन्दनवारिणापि किं किमब्जकन्दैरभिनन्दवत्सलः ।
विचिन्त्यतामान्तरतापशान्तये स केवलं विक्रमशीलनन्दनः ॥
 
अथ पञ्चमः सर्गः ।
 
अथाञ्जनेयाहितसौष्ठवोऽपि सन्कपिश्चकम्पे स विलोक्य लक्ष्मणम् ।
समागमे धामविशेषशालिनां न साध्वसं रोद्धुमलं महानपि ॥ १ ॥
सगौरवस्नेहरसाईभारतीनिवारितार्नेभ्युपपत्तिचाटुना ।
 
स तेन लक्ष्मीभरदूरबन्धुरो हरीश्वरः सञ्जघटे महात्मना ॥ २ ॥
ततः प्रतस्थे रघुनाथसन्निधिं सहामुनाऽग्रेसरगान्धवाहनिः ।
प्रधानयूथानुगतः प्लवङ्गराट् भयत्रपाहर्षबलात्क्रियाकुलः ॥ ३ ॥
ननाम सौमित्रिनिषिद्धसाध्वसः स रामभद्राय सहानुयायिभिः ।
असौ समानीतसमस्तबान्धवस्तवागतो दास इति ब्रुवन्पुरः ॥ ४ ॥
अयं महाराज न राजते क्रमस्तवेत्यवस्थोचितया सपर्यया ।
पुरः प्रतीयेष चिरादुपस्थितं प्रियातिथिर्दाशरथिः सुहृत्तमम् || ५ ।।
कृतानतीनुत्तमयूथपानसौ गृहीतनाम्नः पवमानसूनुना |
ददर्श हर्षा श्रुजडेन चक्षुषा मनुष्यदेहान्तरितो जनार्दनः ॥ ६ ॥
नवाम्बुवाहच्छविरग्रतोनमत्पिशङ्गशाखामृगसिंहसंहतिः ।
पुरःस्फुरद्धालपतङ्गदीधितेरुवाह शोभामुदयाचलस्य सः ॥ ७॥
ततस्ततस्ते परिणाहशालिनी: शिलाः शिलाभेदचयोत्तरच्छदाः ।
रघुवीर त्रिपताकदेशिताः समं समध्यासत यूथपोत्तमाः ॥ ८ ॥
 
१. A reads this only. २. B reads this only. ३. C reads this only. ४ A त्य ।
 
५. A मार्ग ६५A | ७ BC प्राध्वनयं । ८ B शाब |