This page has been fully proofread once and needs a second look.

क्षणं मिथः केलिरयं निवार्यतां निगृह्यतामेष च तूर्यडम्बरः ।
अयं स देवो विनयादुपास्यतामिति श्रुताऽऽसीत्कपिराजघोषणा ॥ ९५ ॥
 
ततश्च तौ पूर्णमनोरथाविव प्रसस्रतुः प्रस्रवणस्थलीमनु ।
प्लवङ्गराजध्वजिनीविनिश्चयान्मिथः समुद्भूतसभाजनत्वरौ ॥ ९६ ॥
 
गतस्य तस्याथ सहानुजन्मना नवोलपच्छन्नतलां वनस्थलीम् ।
वभूव सेवादरदूरबन्धुरः पुरो हनूमान्प्रभुकार्यकोविदः ॥ ९७ ॥
 
गीर्भि: समुल्लसितसंभ्रमगद्गदाभिः
संभाष्य तं विरचिताञ्जलिमाञ्जनेयम् ।
राम: प्रमोदतरलः सुहृदस्तदानी
मभ्युद्गमाय सहसाऽनुजमादिदेश ॥ ९८ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये वनस्थलीविभातसश्रीकतारामचित्तोत्साहसीतास्मरणवैक्लब्यमन्यूत्पीडितलक्ष्मणाभिसान्त्वनशकुनप्राशस्त्यससैन्यसुग्रीवाभिगमवर्णनो नाम
चतुर्थः सर्गः समाप्तः ॥