रामचरितम् /69
This page has been fully proofread once and needs a second look.
हरन्त्यमी कुड्मलशालिनो नगाः समृद्धकल्पा इव नो मनोरथाः ।
स्थिताः पुरः स्पष्टममूः फलानतप्रतानिनीपङ्क्तिनिभाश्च सिद्धयः ॥ ८३ ॥
इति ब्रुवाणस्य गिरं जगद्गुरोरुदारघण्टादिघनप्रभेदभूः ।
ध्वनिर्दवीयानवधानलक्षितश्चकार तारल्यकमन्तरात्मनि[^१] ॥ ८४ ॥
विभक्तसामन्तसमूहलाञ्छनस्ततश्चिराच्छेदतरङ्गमूर्च्छितः ।
प्रकृष्टतूर्यत्रिकयोनिरुद्धभौ[^२] विजृम्भिताद्रिग्रहगौरवो रवः ॥ ८५ ॥
विविच्यते स्म प्रततप्रतिस्वनः स्वनोऽवनद्धप्रभवः पृथग्विधः ।
ध्वनिर्भृशं व्यक्तिमियाय काम्बवः क्रमेण वेणोरपि शुश्रुवे रवः ॥ ८६ ॥
तिरोऽभवज्जर्जरझल्लरीरवैः[^३] महीभृतां निर्झरझात्क्रियारवः ।
मृगव्रजानां विनतान विद्रवं सविभ्रमो डिंडिमडुम्बि[^४]डम्बरः ॥ ८७ ॥
प्रवालशङ्खस्तनिते समन्ततः शकुन्तिकोलाहलमस्तमैयत ।
मतङ्गजानामवलेपगर्जितं ममज्ज मन्द्रे मणिजन्मनि ध्वनौ ॥ ८८ ॥
ममौ मयूरीमदनादमांसलो न मर्दलानां ध्वनिरद्रिकुक्षिषु ।
न कुक्कुभौघक्वणितोर्मयः श्रियं हुडुक्कहिक्कालहरीपु लेभिरे ॥ ८९ ॥
सगोमुखक्काणतरङ्गसंहतिश्चिरं निनादोऽनुननाद पाणवः ।
स्थलीषु निर्घुष्टतलासु पार्ष्णिभिश्चकाशिरे केऽपि न पादपाणवः॥ ९० ॥
चचाल वाचालमहीधरा मही वितेनिरे खं ह्रदपङ्करेणवः ।
जहुस्तरूणां भयलोलदृष्टयः करार्धकृष्टं विटपं करेणवः ॥ ९१ ॥
बभ्रुर्ध्वजाः सांशुकरत्नपल्लवाः ककुप्सु कल्पोपपदद्रुचा[^५]रवः ।
सहोदभूद्भानुगभस्तिभिन्नया मुखोद्भवो मौलिदृषद्रुचा रवः ॥ ९२॥
विविक्तचित्रांशुकचिह्नपालयः प्रकाशवालव्यजनव्रजश्रियः ।
शिखिच्छदच्छत्रकचन्द्रकप्रभावितानचित्राः ककुभश्चकाशिरे ॥ ९३ ॥
समं विशश्राम विमुक्तवीवधा पुरः परिस्कन्दवलीमुखावलिः ।
चिरान्मृदूभावमियाय वाहिनीनिवेशजन्मा तुमुलो मुखारवः ॥ ९४ ॥
[^१] A चेतः सुहृदागमोत्सुकम् ।
[^२] A द्ययौ ।
[^३] A न्मन्थरजर्झरीरवैः
[^४] A दीर्णमलुम्ब ।
[^५] C द्भुवा