रामचरितम् /68
This page has not been fully proofread.
तथा न तस्या मृगशाबचक्षुषः प्रवृत्तिलोपेन ममाधिरेधते ।
घनाश्रुमार्गोप[^१]हताननद्युतेः यथैकबन्धोरवलोकनेन ते || ७१ ॥
अयं ककुप्सु प्रहिणोति यूथपान् प्लवङ्गराजः प्रतिभोपनामिनः[^२] ।
प्रसीद निस्संशयमेष नन्दतु प्रजावतीजीवितवार्तया भवान् ॥ ७२ ॥
विभातसन्ध्येव कपीन्द्रवाहिनी भिनत्तु किञ्चित्पुरतो घनं तमः ।
ततस्तवार्काग्रकरैरिवाशुगैः ममावलोकः प्रसभं करिष्यते ॥ ७३ ॥
प्रमृज्यतामश्रु दृशोः प्रदृश्यतामिषोर्विशुद्धिः करयुग्मयोगिनः ।
रयो रुषामद्य चिरं निरुध्यतां सुहृद्विलम्बान्तरितो रणोत्सवः ॥ ७४ ॥
उदीर्णकोपातपमेतदन्तिकाद्विलोक्य बालार्कनिभं तवाननम् ।
विलीयतां रात्रिरिव द्विषामसौ विसर्जिताहकङ्कृतिचन्द्रिका चमूः ॥ ७५ ॥
शृणोतु संवर्तकमेघमण्डलीपरस्परास्फालननादमेदुरम् ।
स्ववीर्यगर्भस्रुतिवेगविह्वला तवास्त्रविस्फारमरातिवाहिनी ॥ ७६ ॥
जहीहि बाष्पं[^४] विशदोऽस्मि लक्ष्मण क्षणाद्वयस्योऽप्युपयास्यतीव सः ।
निमित्तपुष्पाणि वदन्त्यमूनि नौ मनोरथानामविलम्विबितं फलम् ॥ ७७ ॥
स्फुरन्नसव्यस्य ममैष चक्षुषः पुटः स्फुटं दर्शयति प्रियागमम् ।
अयं चिराच्चान्द्रमसेन वर्त्मना वहन्वेिंवि[^५]योगान्तमिवाह मारुतः ॥ ७८ ॥
दिगङ्गनानां गगनाङ्गणस्य च प्रसादसंवादि यथाऽद्य मे मनः ।
तथाऽवगच्छामि गता इव क्षयं दशाविसंवाददुरन्तवासराः ॥ ७९ ॥
अयं वहत्याहृतपुष्पसौरभो वनानिलः प्राणसमाङ्गशीतलः ।
असौ सुहृत्कलिविवादकोमलः करोति रूढोऽपि न खेदमातपः ॥ ८० ॥
इयं रसत्यर्थं शिवाऽशिवाकृतिर्व्यनक्ति वामेन वयस्यसङ्गमम् ।
ललत्ययं लक्ष्मण दक्षिणेन मे शुभानि शंसन्पृषतः प्रियासखः ।। ८१ ॥
तताग्रपक्षो मम पक्षसम्पदं चकास्ति चाषः पुरतो वदन्निव ।
अयं च नः सिद्धमिवाभिकांक्षितं क्षमारुहि क्षीरिणि वक्ति वायसः ॥ ८२ ॥
१, C गैंप्र | २, A तः ३. B न रुध्यते । ४. B तापं । ५. BC न्न ६. A चिरस्याद्दि | ७, A पश्य |
घनाश्रुमार्गोप[^१]हताननद्युतेः यथैकबन्धोरवलोकनेन ते || ७१ ॥
अयं ककुप्सु प्रहिणोति यूथपान् प्लवङ्गराजः प्रतिभोपनामिनः[^२] ।
प्रसीद निस्संशयमेष नन्दतु प्रजावतीजीवितवार्तया भवान् ॥ ७२ ॥
विभातसन्ध्येव कपीन्द्रवाहिनी भिनत्तु किञ्चित्पुरतो घनं तमः ।
ततस्तवार्काग्रकरैरिवाशुगैः ममावलोकः प्रसभं करिष्यते ॥ ७३ ॥
प्रमृज्यतामश्रु दृशोः प्रदृश्यतामिषोर्विशुद्धिः करयुग्मयोगिनः ।
रयो रुषामद्य चिरं निरुध्यतां सुहृद्विलम्बान्तरितो रणोत्सवः ॥ ७४ ॥
उदीर्णकोपातपमेतदन्तिकाद्विलोक्य बालार्कनिभं तवाननम् ।
विलीयतां रात्रिरिव द्विषामसौ विसर्जिताह
शृणोतु संवर्तकमेघमण्डलीपरस्परास्फालननादमेदुरम् ।
स्ववीर्यगर्भस्रुतिवेगविह्वला तवास्त्रविस्फारमरातिवाहिनी ॥ ७६ ॥
जहीहि बाष्पं[^४] विशदोऽस्मि लक्ष्मण क्षणाद्वयस्योऽप्युपयास्यतीव सः ।
निमित्तपुष्पाणि वदन्त्यमूनि नौ मनोरथानामविलम्
स्फुरन्नसव्यस्य ममैष चक्षुषः पुटः स्फुटं दर्शयति प्रियागमम् ।
अयं चिराच्चान्द्रमसेन वर्त्मना वहन्