रामचरितम् /67
This page has been fully proofread once and needs a second look.
न यान्ति रत्नाकरसम्मुखापगा[^१]समानवेगाः प्रतिरोद्धुमापदः ।
उदीरयन्तीह विशिष्टमुद्ग[^२]मं गुणौघसंघ[^३]र्षरसोद्धुरा इव ॥ ५९ ॥
इहैव चित्रा गुणबर्हिणः स्फुरन्त्युदीक्ष्यते रन्ध्र[^४]मिहैव नाण्वपि ।
इहैव दुर्वारमिदं कथं पुनः महाविपद्व्यालवधूकदम्बकम् || ६० ॥
इतो महत्कष्टमिदं दुनोति माममी यदार्याकरशष्पलालिताः ।
परीत्य रुन्धन्ति तथैव नौ मुहुः सहागताः पञ्चवटीकुरङ्गकाः ॥ ६१ ॥
न याच्यसे भूरि वलीमुखेश्वर प्रसीद सख्युः प्रथमोपकारिणः ।
सहायभावो निभृतक्षपाचरप्रवृत्तिमात्रोपनयाद्विधीयताम् ॥ ६२ ॥
उपेत्य वा यूयमनन्तरं दिशो दशाननत्रासमपास्य शंसत ।
प्रवृत्तिमिष्टामधिदेवतामुखैः स यातु निद्रामलसो वलीमुखः || ६३ ॥
महाब्धयो यान्ति निदाघतल्लतां व्रजन्ति वल्मीकनिहीनतां नगाः ।
भजन्ति चिन्तामणयश्च लोष्टतां जगत्यभाग्येन जनेन याचिताः ॥ ६४ ॥
अकारणं सत्यमकारणं तपो जगत्त्रयव्यापि यशोऽप्यकारणम् ।
अकारणं रूपमकारणं गुणाः पुराणमेकं नृषु कर्म कारणम् ॥ ६५ ॥
ज्वलन्ति वारीणि तपन्ति रात्र[^५]यो रवेर्न कुर्वन्त्यवलोकमंशवः ।
वहन्ति नः कर्मविपाकचोदिताः फलद्रुमा अप्यवकेशिनां व्रतम् ॥६६ ॥
इदं जनन्या भरतस्य सूत्रितं भवेदु[^६]त स्वन्तमनर्थनाटकम् ।
दशार्णवं घोरमिमं रघूद्वहस्तरेदथ प्राप्तहरीश्वरप्लवः || ६७ ॥
इ[^७]तीरितान्तर्गतमन्युमश्रुणः सृजन्तमच्छिन्नरयास्तरङ्गिणीः ।
ददर्श रामोऽनुजसंज्ञमन्तिकाददर्पणस्थं प्रतिबिम्ब[^८]मात्मनः ॥ ६८ ॥
अथोदकक्लिन्नतलेन पाणिना ममार्ज सास्रे नयने कनीयसः ।
जगाद चेदं[^९] वचनं स सान्त्वयन्कथंचिदाकुञ्चितवेदनारयः ॥ ६९ ॥
त्वयाऽपि चेल्लक्ष्मण धैर्यमुज्झितं ममावलम्बं बत कः प्रदास्यति ।
प्रसीद निर्वाहय दीनमग्रजं न शोकसिन्धौ तव मज्जनक्षणः ॥ ७० ॥
[^१] A गाः ।
[^२] A द्य ।
[^३]. A ह ।
[^४] चन्द्र ।
[^५] A दहन्ति चन्द्रि ।
[^६] A द्व ।
[^७] A reads for this line इति स्फुटैरुत्थितबाधमाधिभिः प्लुतोपकण्ठं तटिनीभिरश्रुणः ।
[^८] BC देह |
[^९] B उवाच चैनं