This page has been fully proofread once and needs a second look.

कथं न सीतामुषितोऽस्मि लक्ष्मण क्षपाचर: पश्य पुलस्त्यपांसनः[^१] ।
अयं ममाविद्धविलोलभूषणान्गृहान्गृहीत्वा गगनेन धाव[^२]ति ॥ ४७ ॥
 
धनुर्धनुर्व्योम्नि कथं न किञ्चन व्यलीक[^३]मेवाद्य मयेदमीक्षितम् ।
हतोऽस्मि हा वत्स दवीयसी पुनः कृता हि मोहापगमेन मैथिली ॥ ४८ ॥
 
स्मितार्द्रबिम्बाधरमुद्रमुन्नसं म[^४]नश्शिलाबिन्दुविशेषकोज्ज्वलम् ।
प्रदीर्घदृक्पत्रमदीर्घसङ्कथं कथं धरिष्ये तदनुस्मरन्मुखम् ॥ ४९ ॥
 
इति ब्रुवन्नश्रुपृषत्कदम्बकं कदम्बपुष्पप्रतिमं मुमोच सः ।
ररक्ष धैर्यं न विरूढवेदनो घनाग्निमाल: शिखरीव काननम् ॥ ५० ॥
 
न लक्ष्मणोऽपीक्षितरामवैशसः शशाक रोद्धुं रयमश्रुणस्तदा ।
बभूवतुर्भिन्नघनाघनोदरौ नभोनभस्याविव तौ समागतौ ॥ ५१ ॥
 
गुणा न यूयं नियतिर्गरीय[^५]सी यदेष देवश्चिरमश्रुभाजनम् ।
प्रसीद कैकेयि मनोरथाधिकं विलोकयार्यस्य दशाविपर्ययम् ॥ ५२ ॥
 
सहाश्रु मुञ्चन्ननुगच्छसि प्रभुं प्रयासि मृद्नन् विषमाणि नाग्रतः ।
असूनशक्तोऽपि विभर्षि लक्ष्मण क्व शिक्षितं क्षुद्रसहायचेष्टितम् ॥ ५३ ॥
 
समेहि शत्रुघ्न समं सहोदरावहं भवांश्चोभयतः समाहितौ ।
निमग्नमापज्जलधौ रघूद्वहं प्रतूर्णमुद्धर्तुमिमं यतेवहि ॥ ५४ ॥
 
विमार्गताशास्त्वरया हरीश्वराः सुदूरमुत्सर्पतु वः स्फुटं यशः ।
व्रज प्रतिज्ञाम्बुधिपारमञ्जसा किमार्य सुग्रीव मुधा विलम्बसे ॥ ५५ ॥
 
गृहाद्विवासो वनवासयातनापराभवोऽयं दयितापहारजः ।
विपज्जलौघैः श्लथसेतुसन्निभः कियद्भिरार्यो न विशीर्यतामयम् ॥ ५६ ॥
 
सरिद्दरिद्राति शरत्समागमे महासरः शुष्यति घर्मसम्पदि ।
स एति कालो न परं विलुप्यते यदैतदार्यस्य विलोचनोदकम् ॥ ५७ ॥
 
प्रियस्य सूनोर्न विलोकसे दशामनाकुले कोसलराजनन्दिनि ।
असौ वनेऽस्मिन्बहुकष्टसङ्कटे विवास्य पुत्रं दिवि सुस्थितः पिता ॥ ५८ ॥
 
[^१] A सुलः ।
[^२] A गच्छ |
[^३] B व्यतीत ।
[^४] B न्नसं पुनः । C त्तमं पुनः ।
[^५] B र्बली ।