This page has been fully proofread once and needs a second look.

कियच्चिरं त्यक्ष्यति मानुषी न सा नभःस्थलाक्रान्तिभयोत्प्लुतानसून् ।
असह्यगाढग्रहरोधवेदनाविराविणी रावणबाहुपञ्जरे ॥ ३५ ॥
 
विचेष्टमानात्कुचमण्डलान्तिके पतत्रिमात्रात्त्रासति स्म या तथा ।
कथं जगत्कम्पकरस्य रक्षसः सहेत संवाद[^१]मियन्तमद्य सा ॥ ३६ ॥
 
यया न येषामनुषङ्गपातिनी कथा मिताऽप्यस्रभुजाममृष्यत ।
शठेन तस्याः कथमद्य कल्पितास्त एव दैवेन सहाधिवासिनः ॥ ३७॥
 
क्षणं प्रिये मन्युरयं निवार्य[^२]तां निहत्य निश्शेषमिदं द्विषत्कुलम् ।
अयं विलुम्पामि विलोचनाम्भसः पथः समस्तानपि ते कपोलयोः ॥ ३८ ॥
 
गिरिः सुनिर्वर्णित एष माल्यवान् निविश्यतां मानिनि सानुनि क्वचित् ।
इमामपूर्वोज्ज्वलमाल्यमण्डलीनिवेशरम्यां कबरीं करोमि ते ॥ ३९ ॥
 
निषीद मूर्ध्ना भुजमूर्ध्नि मामके करोऽयमुष्णं विनिवारयिष्यति ।
अयं निदाघः कणवान्कपोलयोः तमालपत्रं तव तन्वि लुम्पति ॥ ४० ॥
 
तनूदका मार्गनदीयमग्रतः प्रसीद लीलालसमेव यास्यति ।
जडत्वसंभावनया मनाक् पुनः तवेदमभ्युन्नमयामि नूपुरम् ॥ ४१ ॥
 
इदं घनश्यामतृणोलपाचितं नदीतटप्लक्षतलं तलोदरि ।
इतो निषीद[3] श्लथयामि ते शनैः श्रमाम्बुसन्दष्टमिदं स्तनांशुकम् ॥ ४२ ॥
 
विशेषकस्थानम[^४]यं विशेषवान् मनश्शिलापङ्कलवोऽधिरोहतु ।
व्रजन्तु वालाग्रनिबन्धसत्क्रियाममूनि पम्पावनचम्प[^५]कानि च ॥ ४३ ॥
 
असौ परिक्लेशसहो न ते करः किमात्मनोत्तंसयसीदमुत्पलम् ।
ममैष पाणिः स्तनयोस्तवानयोः नवाब्जधूलिं विनिकीर्य धावति ॥ ४४ ॥
 
वतंसकाब्जात्किमलिर्न वारितो हृतो न किञ्जल्ककणः किमीक्षणात् ।
किमुद्धृतं न श्लथमंशुकं मया[^६] यदेष रुद्धस्मितचन्द्रिकोऽधरः ॥ ४५ ॥
 
इदं लतावेश्म विविक्तमत्र ते करोमि पादौ यदि तन्वि ताम्यासि ।
रुणत्सि किं प्राणसमेषु योषितां रहस्यशस्तां गुणगौरि गौरवम् ।। ४६ ॥
 
[^१] Bc स ।
[^२] B पीय ।
[^३] A होपसीद
[^४] A मिदं
[^५] B पङ्कजा
[^६] B रुषा । C शुचा ।