रामचरितम् /64
This page has been fully proofread once and needs a second look.
ससैन्यसुग्रीवाभिगमवर्णनो नाम
अयं रवेः सुनुरयं सदागतेरयं च पौत्रः शतयज्वनोऽङ्गदः ।
मनोरथस्तानिति मे समीपयत्यपत्यभावोपनतान्दिवौकसः ॥ २३ ॥
न तेऽथवा विस्मृतसर्वसंस्त[१]वाः समागमिष्यन्ति मनोरथो वृथा ।
गृहाण काञ्चिद्दिशमग्रतः पुनः विचेतुमेतां जगतीं यतेवहि ।। २४ ।।
न किञ्चिदस्याप्यथवा फलं विधेरवीक्षमाणा पतिदेवरावुभौ ।
नृशंसरक्षःपरिपाटितर्जिता न वर्तते नूनमसौ तपस्विनी ॥ २५ ॥
ध्रुवं द्विषद्वाग्विषवेगविह्वला मुधैव कालं हरतोरिहावयोः ।
गता दिवं दिग्धहतेव शंबरी[२] निराशमाशावलयं विलोक्य सा ॥ २६ ॥
असंशयं तामगृहीतसान्त्वनां धुतोपजापामुपभोगनिःस्पृहाम् ।
कदर्थयन्मर्मसु मत्परायणाममारयन्निष्करुणो निशाचरः ॥ २७ ॥
अगादतिक्रम्य दिनानि जानकी परं न रामः कठिनो विदीर्यते ।
कयाऽऽशयाऽऽश्वासनया च कस्य वा कृशोदरी कालमियन्तमस्त्यसौ ॥ २८ ॥
कथं ब[३]ताध्यक्षसरोषदेशितामपश्यदुत्त्रस्तकुरङ्गलोचना ।
विशीर्णबन्दीजनपञ्जराञ्चितामरातिकाराभवनाधिवासि[४]ताम् ।। २९ ।।
किमेष्यता[५]स्याः सदृशं निकेतयोरिहाहृता य[६]द्भुवि दण्डकावने ।
इतोऽपि यस्याक्षमया विधे[७] पुनस्त्वयाऽतिदूरं गमिता तपस्विनी ॥ ३० ॥
अभूदभिज्ञा तव तत्र लक्ष्मण स्फुटं न मे बाष्पभररात्तदीक्षितम् ।
सपारि[८]हार्यं पतदाप्तमम्बराद्दुकूलरत्नं प्लवगाधिपेन यत् ॥ ३१ ॥
पुनः पुनर्वत्स कथं स पृछ्यतां सुहृत्तमस्तस्य च तेऽनुयायिनः ।
इतो भवद्भिर्गगने कियच्चिरं श्रुतः स नारीपरिदेवितध्वनिः ॥ ३२ ॥
ध्रुवं तदैव क्वचिदुद्विलापया तयाऽनवाप्तत्रिदशानुकम्पया ।
महीमभिप्रेक्ष्य दुरात्मनो रथादनाथया पातितमात्मनो वपुः ॥ ३३ ॥
किमम्बरे किं भुवि किं पयोनिधौ किमद्रिमूर्ध्नि क्वचिदुच्छ्रिताश्मनि ।
न वेद्मि कुत्र प्रतिपात्य सा तनुं निजास्पदं कारणमानुषी गताः॥ ३४ ॥
१. B ख ।
२. B ग्वहतेव शर्वरी.
३. C घृ
४. C नी
५. B मैक्ष
६. B द्भुताप
७. A यमया विधेः
८. B द.