रामचरितम् /63
This page has been fully proofread once and needs a second look.
अयं विभातश्लथबन्धमच्युतञ्चकास्ति पिण्डीतगरोत्करः पुरः ।
रविप्रभाप्रेरणया गतो महीं विमानमार्गादिव तारकागणः ॥ ११ ॥
इतथ निद्रानिभृतां कुमुद्वतीमतीत्य रक्ताम्बुजिनी विराजते ।
स्फुटप्रसूनालिनिभेन बिभ्रती विभातसन्ध्यां नभसश्च्युतामिव ॥ १२ ॥
यथेयमह्नः स्पृहणीयता मुखे यथाभिरामेयमनोकहस्थली ।
प्रसन्नमन्तःकरणं यथाऽद्य मे यथा च शंसन्ति निमित्तमण्डजाः ॥ १३ ॥
यथाऽयमावाति सरोजिनीमरुद्विमुक्तपुष्पाञ्जलयो यथा नगाः ।
तथाऽवगच्छाम्यधिकारमापदामवाप्तपर्यन्तमिवार्य सम्प्रति ॥ १४ ॥
प्रसीद कैश्चिद्दिवसैर्न पूर्यते चतुर्दशोऽयं वनवासवत्सरः ।
इयं हि नः संमुखसम्पदीक्षणक्रुधेव सन्दीप्य विपद्यियासति ॥ १५ ॥
विजीयतामाधिरुपस्थितोऽवधिर्विनोदमन्तःकरणस्य चिन्तय ।
शुभेयमद्रेरुपकण्ठभूरिह प्रतीक्ष्यतामार्य वलीमुखेश्वरः ॥ १६ ॥
अथादरालोकितकाननान्तरी रघूद्वहः स्फीत इव व्यराजत ।
अनुप्लवस्याभिसमीक्ष्य जल्पतश्वरन्ति हि <error>छ</error><fix>च्छ</fix>न्दमधीश्वरा अपि ।। १७ ।।
जगाद सौमित्रिमुदीक्ष्य चान्तिकाद्विलोकमानः स[^१] वनस्थलीरिमाः ।
चिरान्मम प्रागिव वत्स लक्ष्मण क्षणः कियानप्ययमव्यथो गतः ॥ १८ ॥
पुराविभातं कलशोद्भवाश्रमाद्यथाऽऽवयोः पञ्चवीं प्रयास्यतोः[^२] ।
चिरस्य तामावसतोरनत्ययं यथा च तद्वत्स हिमागमे पुनः ॥ १९ ॥
चिरान्मनोहारि तथेदमद्य मे विभातमाभाति विनैव कारणम् ।
प्रकामविश्रामसरोजमी[^३]दृशोरसौ न पार्श्वे जनकेश्वरात्मजा ॥ २० ॥
निरूप्यतां शीतलमातपः पदुः किमन्यदह्नः प्रहरोऽतिवर्तते ।
उपस्थितोऽद्यापि न स प्लवङ्गमः किमङ्ग नः सम्प्रति कृत्यमुच्यताम् ॥ २१ ॥
इदं किमत्रैव दिनं समाप्यतामथोद्यमः कोऽप्यधुनैव गृह्यताम् ।
प्रतिष्ठतां ताव[^४]दुपान्तिकं भवानुत क्षणं तावदसौ प्रतीक्ष्यताम् ॥ २२ ॥
[^१.] C नस्य
[^२.] A यियासतोः ।
[^३.] A जिनी
[^४.] A वात.