This page has been fully proofread once and needs a second look.

 
 
ससैन्यसुग्रीवाभिगमवर्णनो नाम
 
नमो नृपतिचन्द्राय पृथ्वीपालाय येन सा |
विकालमलिना दिक्षु दर्शिता कविपद्धतिः ।।
 
चतुर्थः सर्गः ।
 
तयोरथाश्यानविशुद्धचीरयोर्भुजान्तसक्ताम्बुजबीजमालयोः[^१]
निबद्धनिर्वेश[२]जटाकलापयोरभूद्विशिष्टा रुचिरच्युतांशयोः ।।।।

तयोः कवोष्णाचलवाहिनीजलं निशाजलस्तम्भितवर्त्मवालुकम् ।
अनुक्रमव्यक्तसमस्तदिङ्मुखं मुखं दिनस्य स्पृहणीयतां ययौ ॥ २ ॥

प्रकाशरोचिर्निचयो विरोचनः सरोजगन्धोपनयी च मारुतः ।
स्वपुत्रदोषादिव जातसाध्वसौ पुरस्तयोस्तेनतुरात्ममो गुणम् ॥ ३ ॥

स्वनैरनुत्रासविचित्रकाकुभिः वितर्कदोलाकुलचित्तयोस्तयोः ।
उपान्तकुञ्जेषु कपिञ्जलादयः शशंसुराशंसितसिद्धिमण्डजाः ॥ ४ ॥

प्लवङ्गयूथाधिपतेरवेक्षया सलक्ष्मणे सीदति मैथिलीपतौ ।
सदस्यतां गन्तुमिवान्तिकं ययुः कुरङ्गकाश्चाटुतरङ्गरि[^३]ङ्गिणः ॥ ५ ॥

पदैर्मनोहारिभिरग्रजन्मनो विनोदहेतोरवधानचो[^४]दितः ।
निवेदयामास वनस्थलीभुवां विभातलक्ष्मीमिति लक्ष्मणः क्षणम् ॥ ६ ॥

प्रभालवोल्लासिमुखैर्न केवलं चिरन्तनैरभ्युपपन्नसौहृदः ।
असावहंपूर्विकया नवैरपि प्रतीष्टपादः सविता सरोरुहैः ॥ ७ ॥

विदीर्घ[^५]विश्राणितसालसाङ्घ्र[^६]यो निजांसनिक्षिप्तनिमीलिताननाः ।
इमाः स्थलीसीमानि बालमातपं पिबन्ति पम्पाकलहंसपङ्क्तयः ॥ ८ ॥

इतः शनैर्लावकशाबकावलीमुखाग्रपीतादतिरिक्तमालपम् ।
विकीर्णमुक्ताफल[^७]जालनिर्मलं तुषारमाचामति शष्प[^८]कोटिषु ॥ ९ ॥

इतः सुदृप्तैर्निचितानि षट्पदैः प्लुतोदराणि क्षणदोद[^९]बिन्दुभिः ।
विभर्त्यनिर्व्यूढभराणि बन्धनैर्निजप्रसूनानि तलेन मालती ॥ १० ॥
 
[^.] A र्जपान्तजातप्रकृताभिलापयोः ।
[^.] A निर्वर्ष
[^.] A C र
[^.] B नो
[^.] A शाय ।
[^.] A न्द्र ।
[^.] BC कण
[^.] A दर्भ
[^.] B डु ।