This page has not been fully proofread.

३०
 
ससैन्यसुबीवावर्जनो नाम
 
नमो नृपतिचन्द्रायः पृथ्वीपाला येनासा |
विकाल्पलिमा- विक्षु दर्शिता कपिछतिः ।।
 
चतुर्थः सर्गः ।
 
तयोरथाश्यानविशुद्धचीरयोर्भुजान्तसक्ताम्बुजवीजमालयोंः'
निवद्धनिपेंशजटाकलापयोरभूद्विशिष्टा रुचिच्युतांशयोः ।। १ ।।
तयोः कवोष्णाचलवाहिनीजलं मिशानलस्तम्भितवर्जवालुकम् ।
अनुक्रमव्यक्तसमस्तहिड्युखं मुखं दिनस्य स्पृहणीयतां ययौ ॥ २ ॥
प्रकाशरोचिर्निचयो विरोचनः सरोजगन्धोपनयी च मारुतः ।
स्वपुत्रदोषादिव जातसाध्वसौ पुरस्तयोस्तुरात्ममो गुणम् ॥ ३ ॥
स्वनैरनुत्रासविचित्रकाकुभिः वितर्कदोलाकुलचित्तयोस्तयोः ।
उपान्तकुञ्जेषु कपिञ्जल्लादयः शशंसुराशंसितसिद्धिमण्डजाः ॥ ४ ॥
प्लवङ्ग यूथाधिपतेरवेक्षया सलक्ष्मणे सीदति मैथिलीपतौ ।
सदस्यतां गन्तुमिवान्तिकं ययुः कुरङ्गका चाटुतरङ्गरङ्गिणः ॥ ५ ॥
पदैर्मनोहारिभिरग्रजन्मनो विनोदहेतोरवधानचोदितः ।
 
निवेदयामास वनस्थलीभुवां विभातलक्ष्मीमिति लक्ष्मणः क्षणम् ॥ ६ ॥
प्रभालवोल्लासिमुखैर्न केवलं चिरन्तनैरभ्युपपन्नसौहृदः ।
असावहंपूर्षिकया नवैरपि प्रतीष्टवादः सविता सरोरुहैः ॥ ७ ॥
विदीर्घोर्षश्रामितसालसाङ्घ्रयो निजा॑सनिक्षिप्तनिमीलितानमाः ।
इमाः स्थलीसीमान बाळमातपं पिबन्ति पम्पाकलहंसपङ्ग्यः ॥ ८ ॥
इतः शनैर्लावकशाबकावलीमुखाग्रपीतादतिरिक्तमालपम् ।
विकीर्णमुक्ताफलँजालनिर्मलं तुषारमाचामति शष्पकोटिषु ॥ ९ ॥
इतः सुदृप्तैर्निचितानि षट्पदैः प्लुतोदराणि क्षणदोबिन्दुभिः ।
विभर्त्यनिर्व्यूढभराणि बन्धनैर्निजप्रसूनानि तलेन मालती ॥ १० ॥
 
१. A र्जपान्तजातप्रकृताभिलायोः । २. A निर्वर्ष. ३. A C४, B नो, ५, A शाम ६. Aन्द्र ।
 
9. BC कण ८. A दर्भ ९. Bड्डु ।