This page has not been fully proofread.

तृतीयः सर्गः ।
 
उत्सारितेवाअकरेणुकुम्भाज्जम्भारियुग्याधिकृतैर्मरुद्भिः ।
तत्वन सन्ध्येति समुयसन्तीः नमोऽङ्गणं रङ्गविकारधूलिः॥ ७१ ॥
संवित्तयस्तत्त्वविगाहेशुभ्राः सांसारिके राग इवाधिरूढे ।
शनैशनैर्लानरुचो ममज्जुस्ताराः प्रसर्पत्यरुणे चिरेण ॥ ७२ ॥
कैः शिक्षिता वर्तयितुं तदासीदुन्मीलितं तूलिकयेव चित्रम् ।
तरङ्गवत्तुङ्गशरद्धनालीविसंस्थुले व्योमनि बालसन्ध्या ॥ ७३ ॥
प्रत्युप्तमात्रं दिशि. देवभर्तुरभ्यैक्तखण्डाभ्रतरङ्गमालम् ।
बभौ विसर्पत्पयसीव तैलं नभस्तले बालपतङ्गतेजः ॥ ७४ ॥
प्रसत्तिनिर्व्यूसुधामयूखं खमुणरश्मावपि रक्तिमूहे ।
भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशवदानि ॥ ७५ ॥
तापिञ्छकल्पः ककुभि प्रतीच्यामाच्छादयामास मृगो मृगाङ्कम् ।
दूराधिरूढं जनमापदीव प्रकाशमानोऽतिशयादवर्णः ॥ ७६ ॥
प्रदीप्तसन्ध्याग्नि नदद्धिजौघं निरंशुकध्वस्तपराङ्मुखेन्दु ।
वियद्विलुप्तोडुकुलं तदाऽभृच्चक्रान्तराक्रान्तपुरोपमेयम् ॥ ७७ ॥
मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनाम् ।
न बालभानो: किरणादभैषीन्नदीषु नीहारमयोऽन्धकारः ॥ ७८ ॥
ततार सन्तीर्य हिमान्धकारं तता रसन्ती सरितः खगाली ।
रक्तारविन्दस्य रजोभिरार्दैरक्ता रविं वारिणि वीक्षमाणा ॥ ७९ ॥
स्मरव्ययक्लान्तवलंत्पुलिन्दीसर्वाङ्ग संवाहकलाविदग्धः ।
विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवाप्तः ॥ ८० ॥
अतीत्य शैत्यं " तटवालुकानां कोष्णासु सस्नुर्मुनयो नदीषु ।
अपामपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥ ८१ ॥
जातनकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः ।
इभो" भुवि मस्स्खलवग्रहस्तः सस्मार शैलोदरकुञ्जशय्याम् ॥ ८२ ॥
 
२७
 
१. A. चार । २. Ac भरेण । ३. Be दनाकुलं । ४. A त्य । ५. Aर्तिनिर्मू ६. A से प्रचण्ड ७. Be
 
नामू 6.
ABविय १०, B शीतं । ११ B¢तो ।