रामचरितम् /57
This page has not been fully proofread.
तृतीयः सर्गः ।
तदित्थमुत्थानसमाकुलत्वान्न त्वर्यमाणोऽपि स दूषणाय ।
आर्येण तत्राप्यैसमागतस्य छायाच्युतिः कैव निरूपिता मे ॥ ४७ ॥
ज्ञेयोऽस्ति नः पूर्वमरेरुदन्तः ततस्तदन्ताय विधेयमस्ति ।
इत्याकुलत्वान्मम तावदार्य कार्योपतप्तिः क्षमते न धैर्यम् ॥ ४८ ॥
अनर्थभावादुपचारवादादाकारगुप्तेश्च परीभवन्ति ।
यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वम् ॥ ४९ ॥
मिथः प्रसौदस्खलनादुपाधेरुपैति सख्यं खलयोः खिलत्वम् ।
गृह्णाति सत्पूरुषयोर्न दोषमौदार्यसंवादकृता तु मैत्री ।॥ ५० ॥
निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।
विशन्तिान्योन्यभयं विदूरान्नमस्क्रियामर्हति सौहृदं तत् ॥ ५१ ॥
विस्रब्धमाज्ञापय किं करोमि कथं घटेत प्लवगाधिराजः ।
यत्किञ्चिदादिश्य निभेन किं मां निषेधसि क्लेशमिवेक्षमाणः ॥ ५२ ॥
स्थितोऽस्मि तावद्दिनमेतदेण्यत्यन्येयुराज्ञां तत्र न प्रतीक्षे ।
आर्योऽनुरोधान्न युनक्ति यत्र तत्राहमम्वानियमात्स्वतन्त्रः ॥ ५३ ॥
तदेष निष्क्रम्य तथा करोमि तत्पूर्वसङ्गः प्लवगो यथाऽऽशु ।
तं वैरिसंहारमहोपकारमार्याय निर्यातयितुं यतेत ॥ ५४ ॥
धिक् तं धनुष्पाणिमनुप्लवं मां मुधा मनःपर्युषितावलेपम् ।
अन्वीक्षते यस्य ममावसादादार्यः सहायान्तरमन्तरज्ञः ॥ ५५ ॥
धिक् शाततां सन्नतपर्वतां धिक् धिक् पातवेगश्च ममाशुगानाम् ।
अलक्षितोद्देशमपि द्विषन्तं निहत्य नायान्ति हि यत्क्षणेन ॥ ५६ ॥
खरादिरक्षःकदनेषु दीर्घममी परिज्ञातरसाः किमन्यत् ।
असृग्भुजा॑ भोक्तुमसृक्त्वरन्तां भूयोऽपि भूचन्द्र तवार्धचन्द्राः ॥ ५७ ॥
आताटकासंज्ञपनात्मपन्नस्त्वयैष वर्णाश्रमरक्षणाय ।
समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥ ५८ ॥
१. B. र्य. २. B. क्षतिः के ३. B. मा । ४ B जे ५. B र्वाह ६. A य
४