रामचरितम् /56
This page has not been fully proofread.
२४
मन्त्रविनिचयपूर्वकप्रातस्सन्ध्यावर्णनो नाम
स नूनमायास्यति वानरेन्द्रः सन्देशकार्पण्यमसम्मतं मे' ।
सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपातेऽपि नै धैर्यमार्याः ॥ ३५ ॥
व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन ।
स त्वर्यमाणस्त्वरमाण एव धैर्यस्य नः पारमवाप्स्यतीव ॥ ३६ ॥
धिगस्तु मां तं प्रति विप्रतीपमाशङ्कितं तद्वहु येन यद्वा ।
स्वकार्यदोलासु जनोऽल्पभाग्यः प्राङ्निश्चिनोति व्यतिरेकमेव ॥ ३७ ॥
इत्थं न मां प्रत्युपपत्तिमेति तत्राद्यपक्षद्वितयेऽपि यात्रा ।
वरं विसोढानि कियन्त्यपीह सङ्ख्यातकालाभ्यधिकान्यहानि ॥ ३८ ॥
स्वालोचितं वक्तु भवानिदानीमोमित्यनुष्ठेयमसंशयं
यत् ।
बाल्यात्प्रभृत्येव तवोत्तरा धीर्न पूर्वपक्षेऽभिनिवेशमेति ॥ ३९ ॥
इति प्रसन्नां गिरमग्रजस्य श्रुत्वा चिराद्वीतविषादपङ्कः ।
मुखश्रियैवोज्ज्वलयाऽभिनन्दन्निदं सुमित्रातनयो जगाद ।॥ ४० ॥
समर्थितं साधु समस्तमेव कृती कपिः किं बहुनोदितेन ।
प्रव्यक्तमप्येतैददोषदृष्ट्या गृहीतमार्येण न यत्तदागः ॥ ४१ ॥
तस्योर्जितेनातिरवेरवद्यं नैवेक्षतेऽन्तःकरणं ममापि ।
अयं पुनस्तेन कुतो" न जानाम्यतिक्रमः कालकृतो न दृष्टः ॥ ४२ ॥
विसर्जिता वा पुनरागमाय समापतन्त्यद्य न ते नलाद्याः ।
समाहरत्युद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान् हरीन्वा ॥ ४३ ॥
अष्टादशद्वीपकपीन्द्रमौलिमलानसौँ वालिवधप्रलीनान् ।
नैकाभ्युपायोपहितानिदानीमुत प्रतीच्छत्यतिसत्क्रियाभिः ॥ ४४ ॥
अप्राप्तसन्तोषमसंविभक्तसंभुक्त सर्वस्वमनुलवेषु ।
अथादिशत्यर्पितसारकोश: प्रकामपाथेयपरिग्रहाय ॥ ४५ ॥
अथो से भीतरबालवृद्धोपसेवी सनिभं नियु
यथायथं सद्मनि पद्मसङ्ख्यासमेतशाखामृगयूथनाथः ॥ ४६ ॥
१. B ते २. A हि ३. A मेतद्य ४. A कथं ५. B मौ ६. Aक्तं ७. B वार्थ ८. A हो,