रामचरितम् /55
This page has not been fully proofread.
तृतीयः सर्गः ।
कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादम् ।
प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुर्खते ॥ २३ ॥
तस्यागमाद्यः सहसा भविष्यत्यर्थस्य तस्याभवनं ममास्तु ।
बाधिष्यते वालिवधातिरिक्तस्तद्वेश्मयात्रानुशयः सदा नौ ॥ २४ ॥
स प्राक्तनो नूनमनर्थभाजा नीतस्तलं तेन हितैषिवर्गः ।
उत्थापितैर्दूरमसाविदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥ २५ ॥
अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश्च तस्याद्य हरन्ति कालम् ।
न प्राप्नुवन्ति क्षणमाप्तवाचः सदादृताश्चारणचाटुवादः ॥ २६ ॥
वदन्ति भीताः सचिवा न किञ्चित्किञ्चिन्तयाऽस्मद्गतया विटानाम् ।
स्वयं न सम्प्रत्यनुसन्दधाति पूर्वापरं कामपरः स राजा ॥ २७ ॥
न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकत प्रयान्ति ।
सन्तिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥ २८ ॥
इत्थंगते तत्र गतस्य केन मन्युस्तवोदीर्णरयो निवार्यः ।
विचायमाणो न गुणाय नः स्यादसौ कपीनां कदनानुबन्धः ॥ २९ ॥
प्रपन्नशाठ्यस्य हठोपनामादानेष्यमाणस्य गुणं न वीक्षे ।
तथाविधा हि द्विषतां स्तवेन कर्षन्ति कण परमन्तिकस्थाः ॥ ३० ॥
स्पृष्टो न चेद्विक्रियया कयापि नोपस्थितः कार्यवशादिंदानीम् ।
एतु स्वयं न क्रियते वृथैव स त्वद्वलात्कारनिरुद्धशोभः ॥ ३१ ॥
यथावयोस्तातजटायुषोक्तमुक्तं कबन्धेन यथा च तेन ।
तथोपयास्यैत्यचिरादवश्यमाहूतचक्रो हरिचक्रवर्ती ॥ ३२ ॥
यत्सत्यमादित्यसमुद्भवत्वादुद्भूतिमेष्यन्ति गुणास्तदीयाः ।
तुलाग्रसंपतिविलम्बदोषे तस्मिन्विसंवादमहं न शङ्के ॥ ३३ ॥
विरोपतप्तस्य विदेशवासादाजग्मुषस्तस्य निजाधिवासम् ।
इयन्त्यहान्युत्सुकबन्धुवर्गसंवर्गणव्यग्रतयैव यान्ति ॥ ३४ ॥
१. Bद । २ A. तथा ३. A. त्तवैहारिकसङ्कथस्य । ४. A ता भाजनतां ५. A सन्त ६. र्ष
७. A.त। ८. A. किंकि ९. A तथा स एष्य १० A. संञ्जा.