This page has not been fully proofread.

अथ तृतीयः सर्गः ।
 
अथ प्रबुद्धः प्रथमं विबुद्धमासीनमादाय तदंघ्रियुग्मम् ।
प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतमित्युवाच ॥
किमित्थमेव क्षपितो निशीथः कच्चिन्मुहूर्तार्धमसि प्रसुप्तः ।
अस्मिन्प्रसादावसरे धियां च प्रतिष्ठितश्चेतसि कस्तवार्थः ॥
वनौकसस्तस्य नवेश्वरस्य भावावबोधाय पुनर्विमृश्य ।
यत्प्राप्तकालं तदुदाहराशु प्रस्थानकालोऽयमतिप्रशस्तः ॥ ३ ॥
स्वैव[^१]कार्यलाभस्तिमितः कपिश्चेन्न कश्चिदर्थोऽनुसृतेन तेन ।
रिपावुपेतं वरमर्थिभावाद्विकारसन्देहसहे न मित्रे ॥ ४॥
कार्यान्तराशारैहितेन तेन व्यक्तं खलेनाद्य वयं निरस्ताः ।
दत्तः प्रदीर्घाग्रहणाभिधानो येनायमारादपि नोर्धचन्द्रः ॥ ५ ॥
रुद्धस्तपस्वी स कथं न कैश्चिन्मोहान्धकूपे निपतन्मदान्धः ।
किं देशकास्तेऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥ ६ ॥
रिष्टं न दृष्टं पवमानसुनोः नचाग्निमूनोर्न च वालिसुनोः ।
सर्वेऽपि किं कारणमेकदैव प्रमीतकल्पा: कपिदारकास्ते ॥ ७ ॥
स दुर्निवारो हरिरद्य शेतामास्त्र दितैश्वर्यमधुर्मदेन ।
कथं पुनर्जागरकाल एव सुप्तास्तदःप्ता इति मे वितर्कः ॥ ८ ।॥
देवात्प्रसूतेन हिमेतरांशोरूर्जस्वलैस्तैस्सखिभिर्वृतेन ।
उदारदेहद्युतिनाऽस्मदर्थे निरन्वयं तेन तमः प्रपन्नम् ॥ ९ ॥
अहो महन्मोहजमन्धकारं येनाद्य मध्येसभमुद्धुरेण ।
उत्सार्य तान्मन्त्रिमणिप्रदीपान् प्लवङ्गराजः प्रसभं गृहीतः
 
१, B. स । २ B. व । C. वि । ३. Aल्या ।