This page has been fully proofread once and needs a second look.

२० मन्त्रविनिश्चयपूर्वकप्रातस्सन्ध्यावर्णनो नाम
 
कुमुदवनमहेतु त्यक्तनिद्रं तदासीत्
गगनमुडुवितानैर्धिग्वथैव प्रफुल्लम् ।
अजनि जगदधीशस्यागृहीतेस्तदानीं
विधुरपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥ १०५ ॥
 
श्वसिति जनकपुत्री सत्वरो भानुपुत्रः
कपिपतिरुपसन्नं[^१] सुप्रभातं तवेति ।
जगुरिव रघुनाथायार्धबुद्धाः स्वनन्तो
मधुरमपररात्रे पत्रिणः[^२] केऽपि केऽपि ॥ १०६ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये
सन्ध्यातमश्चन्द्रोदयवर्णनो नाम
द्वितीयः सर्गः समाप्तः ।
 
क[^३]वीनां किं दत्तैर्नृपपशुभिरन्यैरवसरे
परं पृथ्वीपालः क्षणमपि स कर्णो वितरतु ।
अनात्तं तत्त्वज्ञैरपि सुविपुलार्थव्ययभिया
प्रतिष्ठां येनोच्चैर्जगति गमितं रामचरितम् ॥
 
१. A. पन्नः । २. C. क्षि.
३. C. reads here
 
पालान्वयाम्बुजवनैकविरोचनाय
तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिः
येनामरत्वपदवीं गमितोऽभिनन्दः ॥