रामचरितम् /51
This page has been fully proofread once and needs a second look.
द्वितीयः सर्गः ।
आततान गगनाङ्गणाधिकैर्मेदिनीममृतवर्षिभिर्विधुः ।
विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर्मरीचिभिः ॥ ९४ ॥
सैङ्कुचद्भिरभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ ९५ ॥
उच्चखान रुषमुच्चमण्डलः खण्डनामगमयद्विषह्यताम् ।
मानपङ्कमपनीय कामिनीः कान्तहस्तमनयन्निशापतिः ।। ९६ ॥
व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया ।
सौम्यताधिकविशेषयाऽजनि ज्योत्स्नया दिवसनिस्पृहो जनः ॥ ९७ ॥
पीयते स्म कुमुदं न लोचनैश्चन्द्रिका तपति रोहितच्छदम् ।
प्रादुरास परमुत्पिबन्नलि: सौरभं निरवलम्बमम्बुनि ॥ ९८ ॥
एकिकेव निजबृन्दमध्यगाऽप्युच्चुकूज सभया सितच्छदी।
दन्तमूलमसकृच्च संशयादाममर्श करिणः करेणुका ॥ ९९ ॥
केतकीषु कदलीषु वालुकास्वश्मसु स्फुटितकैरवेऽम्भसि ।
लम्भितेव लहरीपरम्परामुल्ललास शशिकान्तिवाहिनी ॥ १०० ।।
प्राप्तसूक्ष्मघनपल्लवान्तरैश्चित्रिताः शशिकरैरितस्ततः ।
बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमम् ।। १०१ ॥
कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः ।
मैथिलीतरवधूदुरासदं राघवाङ्कमविशन् शशित्विषः ॥ १०२ ॥
जागर्षि काश्मरि निषीदसि कोविदार
कुत्रासि वत्स कृतमाल तमाल पश्य ।
किं वर्तते रघुपतेरिति सत्वराभि-
रुक्तं द्रुमघमवलोक्य वनस्थलीभिः ।। १०३ ॥
अन्योन्यदूरपरिषक्तविशालसान्द्र-
शाखाशतैस्तरुभिरन्तर्रयांबभूवे ।
उद्भूतधोरविरहज्वरलङ्घितस्य
चन्द्रातपः स खलु दाशरथेरपथ्यः || १०४ ||
१. A. सत्कुचद्भि २. C. ब | ३. B.C. दि । ४ A. दा । ५. A. रब्ध। ६. A, रुत्त ।
ॐ