This page has been fully proofread once and needs a second look.

तं बभार न विधुः नवोदयं किन्तु कुङ्कुमविलेपनारुणम् ।
एकमुत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी ॥ ८२ ॥
 
आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः ।
उन्ननाम पुरतः शशिच्छलात्पूर्णरुक्म[^१]कलशः पयोनिधेः | ८३ ॥
 
दिक् सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः ।
क्षीबभावमिव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥ ८४ ॥
 
नन्दयन् भुवनमुन्मुखं चिरान्मन्दयन् स्मरविरुद्धमुद्यमम् ।
क्रन्दयन्विरहिणो विहङ्गमान् सान्द्रयन्प्रमदमिन्दुरुद्ययौ || ८५ ॥
 
लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतम् ।
उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥ ८६ ॥
 
आ[^२]लिलिङ्ग रजनीमहासयद्भिद्यमानमुकुलां कुमुद्वतीम् ।
अग्रहीदुडुवधूकरान्करैर्द्यां प्रसादमनयत्समं शशी ॥ ८७ ॥
 
आददे वियदलाञ्छनव्रतं लाञ्छनं निजमगूहदंशुभिः ।
माहिणोदपसृतासु कौमुदीं दिक्षु दक्षतनयापरिग्रही[^३] || ८८ ॥
 
व्याप्य दूरमथ निर्मलं वियद्वीतपङ्कमिव पङ्कजाकरम् ।
रेजुरग्रकिरणाः क्षपापतेः पूतकोकनदकन्दकोमलाः ॥ ८९ ॥
 
<note>no footnote 4?</note>
 
खे ककुप्सु भुवि च क्षपापतेः पेतुरूढ[^५]निचया मरीचयः ।
यत्र तत्र कुहराणि कानिचित्कम्पमानमविशन्निशातमः ॥ ९० ॥
 
क्षिप्तमिन्दुरुचिभिर्व्य[^६]लम्बत त्र्यम्बकस्य शिखिनश्च दिङ्मुखे ।
तत्र नुन्नमनुबन्धनिस्सहं कान्दिशीकमिव निष्ठितं तमः ।। ९१ ॥
 
कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरु[^७]हाम् ।
अध्युवास कमलोदराणि च ध्वान्तमध्वगवधूमुखानि च ॥ ९२ ॥
 
स्वीचकार करकोटिलालनाल[^८]म्बितोडुततिमेखलां दिवम् ।
रागभङ्गमतिसंस्तवाद्गतां देवराजदिशमिन्दुरत्यजत् ॥ ९३ ॥
 
[^१] A. स्वर्णपूर्ण ।
[^२.] C. reads this s'loka as 89th |
[^३.] A. हः ।
[^४.] C. पि ।
[^५.] A.रुच्च ।
[^६.] C. न्द्रककुभि व्य ।
[^७.] A. कठोरभू.
[^८.] B. ल्ल।