रामचरितम् /49
This page has been fully proofread once and needs a second look.
द्राङ्निदाघमनुदद्रजोऽधुना[^१]द्विश्लथां बृहतिकामसारयत् ।
प्रत्यपद्यत वनानिलस्तयोरेकसन्निहितयामिकव्रतम् ॥ ७० ॥
सानुजस्य तमसि प्रमीलतस्तस्य भाविममताहृता इव ।
उज्ज्वलायतविषाणसूचिताश्चक्रिरे परिकरं मतङ्गजाः ॥ ७१ ॥
दीपकृत्यमकरोदुपान्तिके निष्पकम्परुचिरोषधीगणः ।
तेनुरद्रिवनमध्यसुप्तयोर्मङ्गलानि वनदेवतास्तयोः ॥ ७२ ॥
एहि जानकि भुजान्तरं खरः प्रस्तरोऽयमसि किं पराङ्मुखी ।
मत्कपोलमुपधाय सुप्यतामप्रसक्तिरियती कदा नु ते ॥ ७३ ॥
क्षिप्तमंशुकमिदं मयोरसि प्रीयतां तव निराननः[^२] स्तनः ।
नीविनोदिन करे कुरु क्षमामायताक्षि नुदसीव किं पुनः ॥ ७४ ॥
सुप्त[^३]वाक्यमिति मैथिलीपतेर्मैथिलीविरहदूयमानया ||
दिक्सखीनिवहवारितास्रया शुश्रुत्रे वसुधयोपसन्नया ॥ ७५ ॥
मद्बिभेति विरही रघूद्वहो मद्विना च न जगत्प्रमोदते ।
तत्करोमि किमितीव चिन्तयन्नोज्जगाम सहसा निशाकरः ॥ ७६ ॥
न स्म भाति किमपि स्फुटं पुरः किञ्चिदीरितकरेण केवलम् ।
दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानमिव केनचित्तमः ॥ ७७ ॥
जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरम् ।
मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥ ७८ ॥
सानुरागमुपगूढमग्रिमैरंशुभिः शशभृतो दवीयसः ।
उन्ननाम नमुचिद्विषो दिशि स्रस्तसन्तमसभारमम्बरम् ॥ ७९ ॥
उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमोऽपि सन् ।
प्रेक्ष्यते स्म जनितोत्सुकश्चिराद्व्योमरङ्गमुखसंमुखः शशी ॥ ८० ॥
औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत ।
मृज्यमानमिव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभियोगिना ॥ ८१ ॥
[^१] A. नावि ।
[^२] A. रन्तरः ।
[^३] A. प्ति ।