This page has been fully proofread once and needs a second look.

न स्थली न पुलिनं न सिन्धवो नाचला न तरवश्चकाशिरे ।
दूषितद्वितयवादमुद्बभावेकमेव तिमिरं विभूतिमत् ॥ ५८ ॥
 
तत्र मुग्ध[^१]पृषतस्तमोघने पार्श्वगामपि मृगीमहारयत्[^२] ।
प्राप कोकयुवतिर्यदृच्छया पत्युराधितरलस्य सङ्गमम् ॥ ५९ ॥
 
वृद्धमङ्क[^३]मनयच्छिशुभ्रमाच्चुम्बति स्म दयितेति यूथपम् ।
स्त्रीयमप्युदितसंशयः शनैरङ्गमङ्गममृशद्वलीमुखः ॥ ६० ॥
 
सर्वतः परिगतेव पर्वतैराचितेव तरुभिर्निरन्तरम् ।
आप्लुतेव सलिलैरितस्ततः शङ्क्यते स्म चिरसंस्तुताऽपि भूः ॥ ६१ ॥
 
दिक्षु दक्षमवनावनाकुलं खेऽतिखेलमटवीषु भीषणम् |
मत्तमद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥ ६२ ॥
 
भेजुरैक्यमिव तुल्यवैशसाः सायमेव मलिनैर्मुखैर्दिशः ।
गृह्यमाणशिखरा तमश्चयैर्द्यौः पपात वसुधासखीतले ॥ ६३ ॥
 
प्रत्यभान्न पुरतो न पृष्ठतः पार्श्वयोश्च विशदं न किञ्चन ।
व्यानशे भुवनमञ्जनाचलप्रस्थपङ्क्तिनिविडं निशातमः ॥ ६४ ॥
 
न द्वितीयमनुभूयते स्म वस्त्वन्तिकादपि तमस्तिरस्कृतम् ।
केवलात्मविषयं तदाऽभवज्ज्ञानमुल्ब[^४]परिवासिनामित्र ॥ ६५ ॥
 
दूरमिश्रितपरस्पराङ्गकैरप्ययोगजनितज्वरैरिव ।
दुर्लभाननविलोकनमृतैर्दूयते स्म मिथुनैर्मिथो भृ[^६]शम् ॥ ६६ ।।
 
सोऽतिशीतहिमशीकरो मरुन्नूनमुल्मुकचयानवाकिरत् ।
यच्चुकूज भृशमार्तिकाहलं चक्रवाकयुवतिस्तपस्विनी ॥ ६७ ॥
 
उच्चचार न वनस्थलीष्वसौ मर्मरः पतितपत्रनिस्वनः ।
ना[^७]विरास करिकृष्टसल्लकीभङ्गयोनिरसकृच्चटत्कृतिः ॥ ६८ ॥
 
तस्थुरास्थितमनुष्यमूर्तयो यामिका इव विदूरतोऽद्रयः ।
प्रह्वबालविटपाग्रपाणयस्तौ परीत्य तरवः सिषेविरे ॥ ६९ ॥
 
[^१] A. सुश्च. ।
[^२] B. न्. ।
[^३] A. ङ्ग. |
[^४.] A. मूल्य ।
[^५] A. वेशि ।
[^६] A. ऽनिश ।
[^७] A. आ. ।