This page has been fully proofread once and needs a second look.

स्वैरमग्रकरजैर्विनृत्य च व्याकुलां समनयज्जटाटवीम् ।
अङ्गदेशमनयद्विधूय च स्रस्तरातिसृतमञ्चलं त्वचः ॥ ४६ ॥
 
पार्श्वयोरुपदधे महेषुधी आददे शिरसि पूजितं धनुः ।
उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तमास्तरम् ।। ४७ ।।
 
इत्यजस्रमनुजात[^१]सेवया जीयमानवनवासयातनः ।
स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणम् ॥ ४८ ॥
 
मीलितोन्मिषितलोचनः शनैर्जागरूकमवलोक्य सोऽनुजम् ।
उच्चवामकरपङ्कजोदरन्यस्तमौलिरवदन्मितं[^२] वचः ॥ ४९ ॥
 
गच्छ वत्स शयनीयमात्मनः क्लिश्यसे कृशतरः कियच्चिरम् ।
निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ।। ५० ।।
 
प्रातरस्ति बहु कृत्यमावयोर्भ्रातरात्मनि किमस्यतत्परः ।
चिन्त्यतामुषसि तस्य सङ्गतिः शीतलस्य कपिचक्रवर्तिनः ॥ ५१ ॥
 
आस्पदाधिगमगर्वितोऽस्तु वा[^३]ऽप्यस्तुवाऽनुदितभूतिविक्रियः ।
आवयोः समयबद्धयोः पुनः निश्चयार्थमधिगम्य एव सः ॥ ५२ ॥
 
तद्विभातु रजनी सु[^४]खेन ते यास्यतः प्लवगराजमन्दिरम् ।
पक्षयोर्यदनुरूपमुक्तयोस्तत्तदैव च समर्थयिष्यते ॥ ५३ ॥
 
ऊचिवानिति बभूव निर्वचा: कुड्मलीकृतविलोचनोत्पलः ।
अध्यशेत चरणाम्बुजान्तिकं तस्य जोषमनघो जघन्यजः ॥ ५४ ॥
 
तत्र तत्र च शयानयोश्चिराद्वीरयेर्विगतसाध्वसा इव ।
उद्धतैर्ददुरुलूकहुड्कृतैरन्धकारजयघोषणां द्रुमाः ॥ ५५ ॥
 
व्याततोडुदशनापि मुच्यसे न त्वमर्कचिरसंस्तुताऽधुना ।
इत्यरिष्टरिपुकूजितैस्तमो द्यां ब्रुवाणमिव दूरमुद्ययौ ॥ ५६ ॥
 
केवलं शकुनयो न नीडगा: शाखिनोऽपि शयिताः समन्ततः ।
जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश्च[^५] भूभृतः ॥ ५७ ॥
 
[१] A. ति ।
[२] A. त्प्रियं ।
[३] A सोऽ ।
[४] A. मु. ।
[५] A. नु.