This page has been fully proofread once and needs a second look.

कीर्यते कृतरवैः खगव्रजैरेष तल्लतटचैत्यपादपः ।
सायमध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥ २३ ॥
 
यान्ति खिन्नजनसेव्यताममी सौम्य सोर्मि[^१]शुचिवालुकाचयाः ।
प्रान्त[^२]सुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥ २४ ॥
 
धिक् तटान्तवसतीन्सितच्छदान् पश्यतः कमलष[^३]ण्डवैशसम् ।
स्तौमि तं दिवसमार्य केवलं योऽस्तमेति सममब्जबन्धुना ॥ २५ ॥
 
दन्तमूलनिहितैकसल्लुकीपल्लवोऽलसविलोकितानुगः ।
एष मुक्तगिरिकन्दरश्शनैर्वारि वारणपतिः प्रतिष्ठते ॥ २६ ॥
 
शी[^४]लयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितम् ।
मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥ २७ ॥
 
सन्त्यजन्ति मसृणं सरस्सरित्तल्लमूलसलिलानि सैरिभाः ।
संभजन्ति सहसा भय[^५]द्रुतैरीक्षिताः कुररसारसैरिभाः ॥ २८ ॥
 
संमुखीनघनपत्रबन्धनात्पश्य पङ्कजवनादनार[^६]तम् ।
पीतकोशमकरन्दसञ्चयाः सञ्चरन्ति मधुपाः कुमुद्वतीम् ॥ २९ ॥
 
नोपनीतमुखमुद्रमम्बुजं मुक्तमुद्रमथ[^७] नैव कैरवम् ।
एतदीक्षितपरस्परं पुनः पत्रियुग्ममपनिद्र[^८]वैशसम् ॥ ३० ॥
 
रोधसः पुलिनमब्जिनीं ततः तामतीत्य भजते कुमुद्वतीम् ।
तत्र तप्त इव गाहते पयः सायमार्द्र[^९]विरहो विहङ्गमः ॥ ३१ ॥
 
[^१०]स्वीकृतं न नलिनैर्निमीलितं न स्फुटं कुमुदकुड्मलस्मितम् ।
एतदीक्षितपरस्परं परं मूढमम्भसि विहङ्गमद्वयम् ॥
 
व्योनि कीर्ण इव काञ्चनद्रवः सन्ध्ययैष रविरश्मिभिन्नया ।
सान्द्रतां दधति काञ्चनद्रवस्तोकमेचकतमस्सितच्छदाः ॥ ३२ ॥
 
जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान्करान् ।
एत्यदृष्टभवलम्ब्य केवलं व्योमवारिनिधिशेष[^११]मंशुमान् ॥ ३३ ॥
 
[^१] A. सोर्मिसौम्य ।
[^२] B. प्रीत |
[^३] B. ख ।
[^४] Bc. omit this śloka. ।
[^५] Bc. भयदूरवि ।
[^६] BC. ग. ।
[^७] B. धु |
[^८] C. रत्र |
[^९] A. त्त ।
[^१०] B. C. omit this śloka. ।
[^११] A. पार. ।