रामचरितम् /44
This page has been fully proofread once and needs a second look.
संभवत्यभिमरः पुरेऽथवा तस्य तीव्रमयशः किमुच्यते ।
दुःखमुत्खनति कण्टकावलीरङ्गसन्धिषु नवः किलेश्वरः ॥ ११ ॥
सं[^१]प्रति प्रथममार्य गृह्यतां तत्प्रवृत्तिमुपलब्धुमुमः ।
मर्षणीयपरिलम्बदूषणः सोऽधुनाप्यकपटो घटेत चेत् ॥ १२ ॥
मुञ्च मोहमवतीर्यतामितः सेव्यतामियमनाविला नदी ।
एष गच्छति जवाज्जपारुणो वारुणीमरुणसारथिर्दिशम् ॥ १३ ॥
उन्मिमील रघुनन्दनश्चिरात्तन्निशम्य वचनं चमत्कृतः ।
अप्ययोगविधुरा न शेरते संमुखीनविधयस्तथाविधाः ॥ १४ ॥
मुक्तमोहमवलोक्य लक्ष्मणस्तं मृगाङ्कमिव मेघनिर्गतम् |
आददेऽथ शशिकान्तभूधरस्यन्दविन्दु[^२]शिशिरां सरस्वतीम् ॥ १५ ॥
एष पश्य पतितो नभस्तलादस्तशैलगहनेषु नश्यति ।
सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥ १६ ॥
शक्यमर्चितुमनु[^३]च्चपाणिभिः पाशपाणिनगरीनिवासिभिः ।
सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥ १७ ॥
एष मुक्तकरपाटवो रविर्नाटयत्यनुगुणत्वमप्पतौ ।
आपदि प्रकृतिरुज्झिता वरं नाश्रयस्य विसदृग्विचेष्टितम् ॥ १८ ॥
बिम्बमूलरुचिरा रवेरमी रेचयन्ति गगनं गभस्तयः |
पूरयन्ति च महीं महीरुहा[^४]मायताः प्रतिशरीरयष्टयः ॥ १९ ॥
अग्रतः शिखर[^५]शाखिसंहते[^६]श्छाययोपचितयाऽपसारितः ।
पृष्ठतोऽति[^७] निभृतं महीभृतामातपः कटकमाशु नोज्झति ॥ २० ॥
स्वीकरोति शनकैरनोकहच्छायमद्रिशिखरस्थलीरपि ।
हीयते निजवपुष्यपि क्रमादातपस्य ममता तपस्विनः ॥ २१ ॥
अप्पतेर्दिशि विचेष्टते रविर्व्याकुलाः शकुनयः स्वनन्त्यमी ।
ध्वान्तर्द[^८]ष्टिविषदर्शनाद्दिने दुर्निवारनिधने निमीलति ॥ २२ ॥
[^१] B. मां. ।
[^२] C. सिन्धु ।
[^३] A नू ।
[^४] A. भृता ।
[^५] A. रि ।
[^६] B. ति ।
[^७] A, ऽस्ति ।
[^८] B. वृ