This page has been fully proofread once and needs a second look.

द्वितीयः सर्गः
 
तामनीक्षितच[^१]रीमधीरतामात्मनोऽथ[^२] विनियम्य लक्ष्मणः ।
सान्त्वनार्थमिति वाचमब्रवीत्तीव्रमन्युरयमूढमग्रजम् ॥ १॥
 
कार्यमार्य परिशिष्टमुच्यतां मुच्यतामिदमयोगजं तमः ।
राजतूद्यमदिवाकरोदयस्मेरमाशु मुखपङ्कजं तव ॥ २ ॥
 
आसितुं समय एष नावयोर्मोहमित्थमवलम्बितुं न च ।
उत्सहस्व ननु हृष्यतां चिरादिष्वधीनमधुनाऽभिकाङ्क्षितम् ॥ ३ ॥
 
केवलं पलभुजो न तस्य नस्तस्करस्य निलयेऽस्ति[^३] निश्चयः ।
अभ्युपैतु रविनन्दनः क्षणादन्धकारमिदमप्यपैष्यति ॥ ४ ॥
 
औरसानपि सुतानरीनिव घ्नन्ति कारणवशान्महीभुजः ।
निग्रहादनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥ ५ ॥
 
क्रीडतां मृगवनेषु धन्विनां जीव[^४]कोटिकदनेऽपि का क्षतिः ।
खिद्यसे[^५] किमनिशं प्रयोजनादेकवानरवधः कुतः कृतः ॥ ६ ॥
 
तस्य च प्रवयसो जटायुषः स्वर्गिण: किमधुनाऽनुशोच्यते ।
येन जर्जरकलेबरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ ७ ॥
 
एतदेकम[^६]तिवाह्यतामहः श्वो न स प्लवगराट् प्रती[^७]क्ष्यते ।
तत्प्रसीद परितो विचीयतामात्मनैव सनगार्णवाऽवनिः[^८] ॥ ८ ॥
 
त[^९]त्कबन्धशबरीहनूमतामावयोरजनि सङ्गतं यथा ।
इष्टशंसि वनशैलपान्थयोः किं तथाऽन्यदपि नापतेत्पुनः ॥ ९ ॥
 
यत्र यत्र तव सिद्धिरग्रतः कः करिष्यति न ते समीहितम् ।
उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितम् ॥ १० ॥
 
[^१] C. त. ।
[^२] C. नाऽथ |
[^३] B. स्त ।
[^४] A. रूक्ष ।
[^५] A. ते ।
[^६] A, कमेतद् ।
[^७] A. समी ।
[^८] B. नि ।
[^९] A. य ।