रामचरितम् /422
This page has been fully proofread once and needs a second look.
जगुरथ सुरमार्गे चारु गन्धर्ववर्या ननृतुरमरनार्यो दिव्यतुर्याणि नेदुः ।
दशमुखरिपुमौलौ लोलरोलम्बमाला सुरवरकरमुक्ता पुष्पवृष्टिः पपात ।। १०० ।।
चिन्ताकुले रघुपतौ स्फुटमुल्लसन्ती गीर्देवता भगवती स्फुटमन्तरिक्षात् ।
क्रव्यादमन्दिरचिरोपितराजपुत्रीस्वीकारसंशयविकारमपाचकार ।। १०१ ॥
नीतं विजित्य धनदं दशकन्धरेण हत्वा परं रघुपतिः स्वयमग्रहीद्यत् ।
संशुद्धया हुतभुजि प्रियया विमानं तच्चानुजेन सह पुष्पकमारुरोह || १०२ ।।
प्रह्वं प्रहित्य सरथं दिवि शऋदूतं सार्द्धं ससैन्यकपिराजविभीषणाभ्याम् ।
सिद्धाङ्गनाभिरभिगीतजयावदानो देवो जगाम नगरीं निजराजधानीम् ॥ १०३।।
रामस्यासीद्वसिष्ठप्रमुखमुनिवरैरेत्य सम्यक्प्रणीतः
सुग्रीवादिष्टहृष्टप्लवगशतसमानीततीर्थोदकेन ।
मूर्च्छन्माङ्गल्यतूर्यध्वनिमिलितमनोहारिगेयप्रपञ्च-
स्फीतो राज्याभिषेकः त्रिभुवनजनतानन्दकृत्सुन्दरेऽन्हि ।। १०४ ।।
इति श्रीमदभिनन्दकाव्ये कायस्थज्ञातिकुलतिलकेन महंश्रीदेवपालतनयेन
महंश्रीभीमकृतौ सर्गचतुष्टय्यां चत्वारिंशत्तमः सर्गः ॥