This page has been fully proofread once and needs a second look.

सनाथोभयपार्श्वस्य त्वया वत्स तया च मे ।
वनेषु च स[^१]तः कष्टमजनिष्ट न किञ्चन ॥ १०५ ॥
 
हा भीरु हा प्रियतमे हा मद्विरहकातरे ।
क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलम् ॥ १०६ ॥
 
मातः कैकयि तुष्टासि भुङ्क्ष्व राज्यमकण्टकम् ।
वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥ १०७ ॥
 
ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ ।
निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥ १०८ ॥
 
इति निपतितयोस्तयोद्वयोः
दशरथनन्दनयोर्महीतले ।
दशभिरपि दिगङ्गनामुखै<fix>-</fix>
रधृतिवशादिव तत्यजे रुचिः ॥ १०९ ॥
 
एते[^२] निकामरसिकस्य जयन्ति पादाः
श्रीहारवर्षयुवराजमहीतलेन्दोः ।
यैर्द्वादशार्ककिरणोत्करदुर्निवारः
सृष्टोऽभिनन्दकुमुदस्य महाविकासः[^३] ॥ ११० ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये
रामलक्ष्मणसंवादो नाम
प्रथमः सर्गः समाप्तः ।
 
[^१] A. वस ।
[^२] A. के. ।
[^३] C. reads this Sloka after the Colophon and
adds:--
 
चेतः केतकगर्भपत्रविशदं वाचः सुधाबंधनः
कीर्तिः कार्तिकमासमांसलशशिज्योत्स्नावदातद्युतिः ।
आश्चर्यं क्षितिरक्षणक्षणविधौ <flag>श्रीवस्तुपालस्य</flag>
<flag>यत्कृष्णत्वं</flag> चरितैरपास्तदुरितैर्लोकेषु भेजे भुजः ॥