रामचरितम् /419
This page has not been fully proofread.
परिशिष्टम् २ ]
चत्वारिंशः सर्गः ।
उत्तरोत्तरपदै रघुनाथस्येत्थमुत्तरवशाइशकण्ठः ।
म्लायमानवदनावलिलक्ष्यो गृहममेहतिदून इवाभूत् ॥ ६५ ॥
भूय एव स विहस्य विशेषात् रावणेन परुपाक्षरमूचे ।
डिम्भमेवमनुजाधमवस्त्रामन्त्रशाद्वचनपाटनमेवम् (१) ॥ ६६ ॥
मुग्धमन्दमुख सम्महरन्त: सायकास्त्वयि घृणां दधते नः ।
केदमक्षमतमं भवदङ्गं कामरेन्द्रकरिकुम्भभिदोऽमी ॥ ६७ ॥
वालचापलतया प्रतिकूलं क्षान्तमक्षमतया तव सर्वम् ।
गच्छ मानव न जीवसि तिष्ठन् किं हतेन वत दैवहतेन ॥ ६८ ॥
कुम्भकर्णमवधीश्चिरनिद्राघूर्णमानमलसेन्द्रियमाजौ ।
गर्वमुद्रहास किं विधिदोषः केवलं स खलु नो भवदोजः ॥ ६९ ॥
पौरुषं तदिह किं यदि बद्धो भूरिभिः कपिभिरश्मभिरब्धिः ।
संहतानि हि तृणान्यपि सान्द्रायद्रिभेदि सलिलं स्वलयन्ति ॥ ७० ॥
नान्तको न वरुणो न कुवेरो न त्रिविष्टपसदामपि भर्ता ।
आभिमुख्यमभजन्मम युद्धे राम कस्त्वमसि मानवमात्रम् ॥ ७१ ॥
नायकं वनसदां रणतीर्थे सानुजं च विनिहत्य भवन्तम् ।
अद्य सर्वमशिताऽस्मि परेतांस्तर्पयामि रुधिराञ्जलिदानैः ॥ ७२ ॥
सन्तु शूलपरिघासिभुशुण्डीपशमहतयस्तव हत्यै ।
एकमेव मम चापविमुक्तं सायकं परममुं विषहस्व ॥ ७३ ॥
३८७
त्वं निशाचर विकत्थनमेतत् किरो (तं) युधि निदर्शय कर्म ।
इत्युदीरितवति स्मयमाने राघवे स विशिखं विससर्ज ॥ ७४ ॥
तं निकृत्य शरमम्बरमार्गे मूर्तदर्पमिव तस्य किरीटम् ।
पाटयन्नविशदाशु धरित्रीं राघवेषुर समग्रमृगाङ्कः ॥ ७५ ॥
आश्रुतिश्रयितकामुक मौर्वीनादसंमिलितसिंहनिनादैः ।
भेदयन्निव दिशः स समन्तादावृणोद्रघुपतिं शरजालैः ॥ ७६ ॥