This page has not been fully proofread.

३८६
 
रावणवधवर्णनो नाम
 
पात्रपङ्क्तिमवभिद्य च पिष्टा वेदिकाञ्च शिखिनं शमयित्वा ।
रावणस्य रूषितस्य समक्षं ते यथागतमगुः क्षणमात्रात् ॥ ५२ ॥
ते
 
[ रामचरितस्य
 
साम्प्रतं प्रमथशङ्करमूर्तेरहेणां रणरसेन विधारये ।
चन्द्रहासद् लितैर्गलमालाद्रामलक्ष्मणकपीन्द्रशिरोजैः ॥ ५३ ॥
इत्थमादरधृतोद्धतसन्धो निर्जगाम च रणाय मदान्धः ।
श्वेतगृधशतपक्षनिवातप्रोद्धुतध्वजपटेन रथेन ॥ ५४ ॥
ध्वानयन्दशशरासन मौवींनिस्वनैर्दशदिशाबद्नानि ।
अभ्यगाद्दशरथात्मजमाजिपी तिवर्द्धितरसो दशकण्ठः ॥ ५५ ॥
मातलिर्दशरथात्मजहेतोरायुधानि विविधानि च वर्म ।
आनिनाय रथमिन्द्रनिदेशात् तारहारिमणिरत्नवरूथम् ॥ ५६ ॥
स्यन्दने दशमुखः पदचारी राम इत्यनुचितं हृदि मत्वा ।
अम्बरे रणनिरीक्षणरागादागतेन हरिणा न विषेहे ॥ ५७ ॥
भानुनन्दनविभीषणवाचा स्वीचकार कथमप्युपरोधात् ।
प्राभृतं मघवतस्तदुपेतं रामनामपिहितो दनुजारिः ॥ ५८ ॥
वज्रवर्म परिधाय तदेष प्रस्फुरत्परमधामनिधानम् ।
भानुमानुयशैल मिबोराहरोह तमथो रथमैन्द्रम् ॥ ५९ ॥
 
स्यन्दनेन जविना गरुडेन मोह्यमान इव काञ्चनभासा ।
तेन घोररिपुणा रणरागी संययौ स भगवान्मनुजाङ्गः ॥ ६० ॥
वाडवो भृगुपतिर्भवता यो निर्जितः सुभट तावदकाण्डे ।
साधु रावण कथं वद सत्यं तादृगेव सच हैहयहन्ता ॥ ६१ ॥
अप्यकम्पयमुमासहितं तं पर्वतोद्धरणपर्वणि शर्वम् ।
 
विश्व (पश्य) विश्वजयिनोऽपि तदाद्यं नाम रावण इति प्रथितं ते ॥ ६२ ॥
 
राम यो मम रणेऽभिमुखोऽभूदेक एव बलवान् स जटायुः ।
सोऽपि किं न दशकण्ठ सुपार्श्वो योऽर्द्धवर्त्मनि ततो मिलितस्ते ॥ ६३ ॥
 
यद्धलेन भवतो विजयेच्छा तेतु काननसदः पशवो मे ।
 
केऽपि केऽपि पुनरेषु सवार्या ( माना ) वालिनस्तदनुजात्मजमुख्याः ॥६४॥